Question
Easy

संकेत : अधोलिखित गद्यांश पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत : वाग्भटः विख्यातः प्राचीनः वैद्यराजः । सः सिन्धप्रान्ते जन्म अलभत । सः आसीत् पञ्चमे शतके । तेन आयुर्वेदशास्त्रे विपुलं संशोधनं कृतम् । तेन लिखितस्य ग्रन्थस्य नाम – 'अष्टाङ्गसंहिता' इति । अद्यापि सः ग्रन्थः प्रमाणभूतः मन्यते । तिबेटतः रामेश्वरपर्यन्तं तस्य कीर्तिः प्रसृता । एतं ग्रन्थम् अधिकृत्य अद्य यावत् २९ भाष्यविवरणग्रन्थाः प्रसिद्धाः सन्ति । एकदा धन्वन्तरिः व्यचिन्तयत् – 'पृथिवीतले विद्यमानानां विविधानां वैद्यानां परीक्षा करणीया' इति । अतः तेन शुकस्य रूपं धृतम् । सः एकं एव प्रश्नं त्रिवारम् उच्चार्य वैद्यान् पृष्टवान् । सः प्रश्नः आसीत् – 'कोऽरुक् ? कोऽरुक् ? कोऽरुक् ?" (कः आरोग्यसम्पन्नः भवति इत्यर्थः) वैद्याः विविधानि उत्तराणि दत्तवन्तः केचन तु सदीर्घम् उत्तरं दत्तवन्तः । किन्तु कस्यापि उत्तरेण धन्वन्तरिः न सन्तुष्टः । अन्ते शुकः वाग्भटं प्रति आगतः । वाग्भटः स्नानार्थं नदीतीरं गच्छती स्म । शुकरूपधारी धन्वन्तरिः मार्गे स्थितस्य एकस्य वृक्षस्य शाखायाम् उपविष्टः । तेन वाग्भटाय त्रिवारं प्रश्नः कृतः – 'कोऽरुक् ? कोऽरुक् ? कोऽरुक् ?' वाग्भटेन ज्ञातं यत् एषः न सामान्यः पक्षी इति । सः पक्षिणम् नमस्कृतवान् । पक्षिणे सत्काररूपेण फलानि तेन अर्पितानि । शुकः अवदत् – "आदौ उत्तरं दातव्यम् । यदि उत्तरं तृप्तिकरं स्यात् तर्हि एव अहम् उपहारं स्वीकरिष्यामि" इति । वाग्भटः क्षणमात्रं चिन्तितवान् । त्रयाणां प्रश्नानाम् एकम् एव उत्तरं सः दत्तवान् - "हितभुक्, मितभुक् उष्णभुक्" इति । तस्य आशयः - आहारः हितकारः मितरूपः उष्णः च भवेत् इति । वाग्भटस्य उत्तरेण शुकः सन्तुष्टः अभवत् । सः उपहारं स्वीकृत्य ततः निर्गच्छत् । हितभुक् मितभुक् उष्णभुक् इति वाक्ये मितशब्दस्य अर्थः _

1
मित्रम्
2
सूर्यः
3
अल्पम्
4
विशिष्टम्
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P1
Chapter: अव्यय प्रयोगः
Topic: अव्ययम्
Correct Answer
Option C
Explanation

मितशब्द का अर्थ 'अल्पम्' होता है। इस प्रश्न में 'हितभुक्, मितभुक्, उष्णभुक्' वाक्यांश का अर्थ है कि आहार ऐसा होना चाहिए जो हितकारी, अल्प मात्रा में और उष्ण हो। यहाँ 'मित' का अर्थ 'अल्प' से है, जो यह दर्शाता है कि भोजन की मात्रा सीमित और संतुलित होनी चाहिए। अब अन्य विकल्पों की चर्चा करते हैं: 1. मित्रम्: इसका अर्थ 'मित्र' या 'दोस्त' होता है। यह अर्थ यहाँ संदर्भित नहीं…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

अव्यय प्रयोगः
अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां (91- 99) विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत अस्मिन् ब्रह्माण्डे बहूनि ग्रहनक्षत्राणि सन्ति । आकाशे मंगल – बुध – गुरु आदिषु ग्रहनक्षत्रेषु…
Chapter :
अव्यय प्रयोगः
Topic :
अव्ययम्
Question 2
Easy

Source :

अव्यय प्रयोगः
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत – साम्प्रतिकं युगं वैज्ञानिकं युगं वर्तते । अद्य मानवः तथैव नास्ति यथा शतं वर्षाणि…
Chapter :
अव्यय प्रयोगः
Topic :
अव्ययम्
Question 3
Easy

Source :

अव्यय प्रयोगः
निर्देशः अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत – ग्रामे आसीत् कश्चन दुर्बलकायः । शरीर-शक्तिहीनताकारणतः सः भृतिकार्यं न प्राप्नोति स्म । सः देवं…
Chapter :
अव्यय प्रयोगः
Topic :
अव्ययम्
Question 4
Easy

Source :

अव्यय प्रयोगः
निर्देश : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत – भवन्ति बहवः भारतीयाः अपि तादृशाः, ये भारतं सततं निन्दन्ति, भारते लब्धजन्मानं स्वमपि निन्दन्ति ।…
Chapter :
अव्यय प्रयोगः
Topic :
अव्ययम्