Question
Easy

निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत – विश्वविद्यालयस्य कश्चित् प्राध्यापकः जलविहाराय नावम् आरूढः । नौकया जलविहारस्य तस्य प्रथमः अवसरः आसीत् । तत्र मनोरमान् दृश्यान् दृष्ट्वा सः नाविकम् अपृच्छत् – भो नाविक ! किं भवता कदापि गणितं पठितम् ? नाविकः – न पठितम् महोदय । प्राध्यापकः – किं गणितं पठितुं विद्यालयं न गतवान् । नूनं भवतः जीवनस्य चतुर्थांशः व्यर्थः अभवत् । किं भवता रसायनशास्त्रं भौतिकशास्त्रं वा पठितम् ? नाविकः अवदत् – ईदृशं मे भाग्यं कुतः ? यदहं भौतिकशास्त्रं रसायनशास्त्रं वा पठेयम् । प्राध्यापकः – नूनं भवतः जीवनस्य अर्धांशः व्यर्थः अभवत् । वद वद त्वया आंग्लभाषा तु पठिता एव । नाविकः (ग्लानिम् अनुभवन) – महाशय ! नाहं मात्रा पित्रा वा विद्यालये प्रेषितः । तर्हि कुतः पठेयम् ? प्राध्यापकः – तर्हि तव जीवनस्य त्रयो भागाः व्यर्थाः अभवन् । अत्रान्तरे नदे जलावर्तनं समायातम् । तदा लहरीणां वेगेन नौः अकम्पत् । तयोः पश्यत एव नौका जलेन पूरिता जाता । नाविकः प्राध्यापकम् अपृच्छत् – महोदय ! किं भवान् तर्तुं जानाति ? नौकां जलपूरितां दृष्ट्वा भीतः प्राध्यापकः अवदत् – अहं तु तर्तुं न जानामि । नाविकः अवोचत् – यदि भवान् तर्तुं न जानाति तर्हि भवतः सर्वं जीवनं वृथा जातम् । अहं तु बाहुभ्यां नदं तीर्त्वा पारं गच्छामि । ‘जलविहाराय’ इत्यस्मिन् पदे का विभक्तिः प्रयुक्ता ?

1
प्रथमा
2
द्वितीया
3
सप्तमी
4
चतुर्थी
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P2
Chapter: कारक एवं विभक्ति
Topic: विभक्ति
Correct Answer
Option D
Explanation

‘जलविहाराय’ इत्यस्मिन् पदे चतुर्थी विभक्तिः प्रयुक्ता अस्ति। संस्कृत भाषा में चतुर्थी विभक्ति का प्रयोग सामान्यतः 'के लिए' या 'के उद्देश्य से' के अर्थ में होता है। यहाँ पर 'जलविहाराय' का अर्थ है 'जलविहार के लिए'। इस प्रकार, यह स्पष्ट है कि यहाँ चतुर्थी विभक्ति का प्रयोग किया गया है। अब अन्य विकल्पों की चर्चा करते हैं: 1. प्रथमा: प्रथमा विभक्ति का प्रयोग कर्ता के रूप में होता है, जो यहाँ…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

कारक एवं विभक्ति
निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्य उचिततमम् उत्तरं चित्वा लिखत - वृद्धः पिता स्वपुत्रान् कृषिकर्मणः संचालनाय भूयोभूयः प्रेरयति । किन्तु सर्वेऽपि अलसाः पुत्राः न…
Chapter :
कारक एवं विभक्ति
Topic :
विभक्ति
Question 2
Easy

Source :

कारक एवं विभक्ति
अधोलिखितं गद्यांशं पठित्वा तदाधारित – प्रश्नानानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत – एकदा दरिद्रेभ्यः दातुं कम्बलाः नृपेण चाणक्यय समर्पिताः । चाणक्यस्य उटजं नगराद् बहिः आसीत्…
Chapter :
कारक एवं विभक्ति
Topic :
विभक्ति
Question 3
Easy

Source :

कारक एवं विभक्ति
अधोलिखितान् श्लोकान् पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत । न पृष्टः कस्यचिद् ब्रूयात् न चान्यायेन पृच्छतः जानन्नपि हि मेधावी जडवल्लोकमाचरेत् ॥ 1 ॥ वित्तं…
Chapter :
कारक एवं विभक्ति
Topic :
विभक्ति
Question 4
Easy

Source :

कारक एवं विभक्ति
निर्देश : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत – भवन्ति बहवः भारतीयाः अपि तादृशाः, ये भारतं सततं निन्दन्ति, भारते लब्धजन्मानं स्वमपि निन्दन्ति ।…
Chapter :
कारक एवं विभक्ति
Topic :
विभक्ति