अधोलिखितं गद्यांशं पठित्वा तदाधारित – प्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत – सः कश्चन लघुकुटुम्बः । तस्मिन् पितरौ, पुत्रः, पुत्री च आसन् । एकस्मिन् दिने मध्याह्ने पुत्रः भोजनार्थं गृहम् आगतः । माता जलचषकं स्थालिकां च संस्थाप्य अन्नं सारं च पर्यवेषयत् । पुत्रः केवलमात्रं खादित्वा जननीम् अगर्हयत् – “अम्ब ! किमिदम् ? सारः सम्पूर्णः लवणमयः । एतत् खादितुं कथं शक्येत ? मह्यं भोजनं मास्तु……” मातरं भर्त्सयमानः एव सः कोपेन गृहात् बहिः गतवान् । सायं दीपज्वालनसमयः अभवत् । तथापि सः युवा पुत्रः गृहं न आगतः । रात्रौ अष्टवादनसमये आगतः सः हस्तपादं प्रक्षाल्य दूरदर्शनस्य पुरतः आसन्दे उपाविशत्, हस्तेन नियन्त्रकं (रिमोट्) गृहीत्वा । निमेषाभ्यन्तरे पिता पुत्रस्य समीपम् आगतः । तं दृष्ट्वा पुत्रः चिन्तितवान् – ‘किमिदं पिता मम समीपे एव आगच्छति ! एतावत्पर्यन्तम् एकवारमपि जलपनादिकं तेन न कृतं मया सह । इदानीं मां गर्हयितुम् एव आगच्छन् स्यात् प्रायः सः । ....’ परन्तु अवनतवदनस्य पुत्रस्य पार्श्वे उपविशन् पिता प्रावोचत् – “वत्स, भवान् मध्याह्ने भोजनं कृतवान् ननु ?” “......” “वत्स ! भवन्तम् एव अहं पृच्छामि । भवान् मध्याह्ने भोजनं कृतवान् किम् ?” “आम् !” – किञ्चित् रूक्षतया अवदत् पुत्रः । “कुत्र ?” मृदुस्वरेण एव अपृच्छत् पिता । “मम सुहृदः माम् उपहारमन्दिरं नीत्वा भोजनं कारितवन्तः” – किञ्चिदपि अविचलितः सन् पुत्रः उक्तवान् । “सुष्ठु, पुत्र ! सुष्ठु । भवान् भोजनं कर्तुम् इच्छति चेत् भवता समये अपि विश्वे गृहाणि प्राप्येरन् । तत्र ते तुभ्यं स्वादु भोजनमपि दद्युः । परन्तु भवतः मात्रे अस्माकं गृहमेव प्रपञ्चः । तस्याः लोके अहं, भवान्, भवतः अनुजा च एव वसामः । अस्माकं त्रयाणां हितमेव तस्याः लक्ष्यम् । भवता भोजनं न कृतम् इत्यतः सा एतावत्पर्यन्तं बिन्दमात्रं जलम् अपि न स्वीकृतवती । इतोऽपि तस्याः मनः परितप्तम् अस्ति – ‘अद्य मया किं कृतम् । पाकसमये मम अवधानं कुत्र आगच्छत् ? मम अजागरूकताकारणतः सारः लवणमयः जातः । तदर्थं पुत्रः किञ्चिदपि न भुक्तवान् । सः कुत्र गतवान् स्यात् ? क्षुत्पिपासानिवारणार्थं सः कीदृशं कष्टम् अनुभूतवान् स्यात् इति न ज्ञायते’ इति” इति उक्तवान् पिता । पितुः हृदयस्पशिर्नी वाणीं श्रुत्वा पुत्रः आत्मावलोकनम् अकरोत् । ततः सावधानतया उत्थाय शनैः शनैः जनयित्र्याः समीपम् अगच्छत् । सा म्लानवदना खिन्ना च भूत्वा उपविशन्ती आसीत् तत्र । पुत्रः विनयेन ताम् उपसर्प्य मृदुमधुरेण मन्द्रस्वरेण अकथयत् – “अम्ब ! महती बुभुक्षा मम । किं न परिवेषयसि अविलम्बेन ?” इति । जल्पनादिकं तेन न कृतं मया सह इति वाक्यं कस्मिन् वाच्ये लिखितम् ?
वाक्य "जल्पनादिकं तेन न कृतं मया सह" में "कृतं" क्रिया का प्रयोग हुआ है, जो कि कर्मवाच्य (passive voice) में है। आइए इसे विस्तार से समझते हैं: 1. कर्मवाच्ये (Passive Voice): - कर्मवाच्य में क्रिया का मुख्य ध्यान कर्म पर होता है, न कि कर्ता पर। इस वाक्य में "जल्पनादिकं" (बातचीत आदि) कर्म है, और "तेन" (उसके द्वारा) कर्ता है। "मया सह" (मेरे साथ) यह दर्शाता है कि क्रिया किसके…Read More
Source :
Source :
Source :
Source :