Question
Easy

निर्देशः : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत – कदाचित् कश्चन महात्मा प्रयाणावसरे पिपासाम् अनुभूतवान् । समीपे एव तेन एकः कुटीरः दृष्टः । सः कुटीरः कस्यचित् चर्म-कारस्य । महात्मा तम् उपसर्प्य अपृच्छत् – “आर्य ! किम् अत्र पानाय जलं लभ्येत ?” इति । महात्मानम् उपस्थितं दृष्ट्वा सः चर्मकारः नितरां सन्तुष्टः । सः उत्थाय अन्तः गत्वा जलम् आनीय महात्मने दातुम् उद्यतः । तावता तेन स्वस्य चर्मकारकुलत्वं स्मृतम् । अतः सः अग्रे प्रसारितं हस्तं पृष्ठतः कृतवान् । “किं महोदय ! किमर्थं जलदाने एवं सङ्कोचः ?” – सः महात्मा पृष्टवान् । तदा चर्मकारः अवदत् – “श्रीमन् ! अहम् अस्मि निम्नकुलीयः । मया भवते जलं यत् दीयेत तत् भवेत् पापाय” इति । “पापपुण्यादिविषये भवतः महती चिन्ता !” इति हसन् उक्तवान् सः महात्मा । ततः द्वित्राणि पदानि अग्रे निक्षिप्य सः चर्मकारस्य स्कन्धे हस्तं संस्थाप्य अवदत् – “महोदय ! इदानीं मया भवान् स्पृष्टः, न तु भवता अहम् । तस्मात् यदि पापं प्राप्येत तर्हि तत् तु मया प्राप्येत । अतः इदानीं जलदाने न कापि आपत्तिः । कृपया जलं दीयताम्” इति । चर्मकारः तस्मै जलं दत्तवान् । जलं पीत्वा सः महात्मा उक्तवान् – “भ्रातः ! भगवतः दृष्ट्या सर्वे समानाः । ये तारतम्यम् आचरेयुः ते तु अज्ञानिनः । स्पृश्यास्पृश्यभेदः मानवेन कल्पितः । तत्र श्रद्धा न करणीया । अहम् इदानीं बुभुक्षितः अस्मि अपि । यदि अद्य भवद्गृहे भोजनं प्राप्येत तर्हि वरं स्यात्” इति । “भवान् मम गृहे भोजनं कर्तुं सज्जः यत् तत् तु मम सौभाग्याय एव” इति सहर्षम् उक्त्वा पाक‍सज्जीकरणाय पत्नीं सूचयितुं सः चर्मकारः अन्तः गतवान् । ‘स्पृश्यास्पृश्यभेदः मानवेन कल्पितः’ इति वाक्यस्य वाच्यपरिवर्तनेन भवेत् _

1
स्पृश्यास्पृश्यभेदं मानवाः कल्पितवन्तः
2
स्पृश्यास्पृश्यभेदं मानवः कल्पितवान्
3
स्पृश्यास्पृश्यभेदेन मानवः कल्पितः
4
स्पृश्यास्पृश्यभेदाय मानवा कल्पिताः
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P2
Chapter: वाक्य परिवर्तन
Topic: वाक्यपरिवर्तनम् (लट्लकारस्य)
Correct Answer
Option B
Explanation

वाक्य "स्पृश्यास्पृश्यभेदः मानवेन कल्पितः" का वाच्यपरिवर्तन करते समय हमें यह ध्यान में रखना चाहिए कि वाक्य का अर्थ और व्याकरणिक संरचना दोनों को सही तरीके से परिवर्तित करना आवश्यक है। विकल्प 2, "स्पृश्यास्पृश्यभेदं मानवः कल्पितवान्", सही है क्योंकि इसमें "मानवः" (एकवचन) और "कल्पितवान्" (एकवचन, पुल्लिंग) का प्रयोग किया गया है, जो मूल वाक्य के अर्थ को सही तरीके से व्यक्त करता है। यहाँ "स्पृश्यास्पृश्यभेदं" को एक वस्तु के रूप में…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

वाक्य परिवर्तन
अधोलिखितं गद्यांशं पठित्वा तदाधारित – प्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत – सः कश्चन लघुकुटुम्बः । तस्मिन् पितरौ, पुत्रः, पुत्री च आसन् । एकस्मिन् दिने…
Chapter :
वाक्य परिवर्तन
Topic :
वाक्यपरिवर्तनम् (लट्लकारस्य)
Question 2
Easy

Source :

वाक्य परिवर्तन
अधोलिखितं गद्यांशं पठित्वा तदाधारित – प्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत – सः कश्चन लघुकुटुम्बः । तस्मिन् पितरौ, पुत्रः, पुत्री च आसन् । एकस्मिन् दिने…
Chapter :
वाक्य परिवर्तन
Topic :
वाक्यपरिवर्तनम् (लट्लकारस्य)
Question 3
Easy

Source :

वाक्य परिवर्तन
निर्देश : अधोलिखितान् श्लोकान् पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत । शान्तितुल्यं तपो नास्ति न सन्तोषात्परं सुखम् । न तृष्णायाः परो व्याधिर्न च धर्मो दयापरः…
Chapter :
वाक्य परिवर्तन
Topic :
वाक्यपरिवर्तनम् (लट्लकारस्य)
Question 4
Easy

Source :

वाक्य परिवर्तन
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चित्वा लिखत । एकस्मिन् ग्रामे सत्यप्रियः नामकः एकः काष्ठिकः वसति स्म । सः प्रत्यहं वनं गत्वा कुठारेण काष्ठानि…
Chapter :
वाक्य परिवर्तन
Topic :
वाक्यपरिवर्तनम् (लट्लकारस्य)