Question
Easy

अधोलिखितं गद्यांशं पठित्वा तदाधारित – प्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत –

सः कश्चन लघुकुटुम्बः । तस्मिन् पितरौ, पुत्रः, पुत्री च आसन् । एकस्मिन् दिने मध्याह्ने पुत्रः भोजनार्थं गृहम् आगतः । माता जलचषकं स्थालिकां च संस्थाप्य अन्नं सारं च पर्यवेषयत् । पुत्रः केवलमात्रं खादित्वा जननीम् अगर्हयत् – “अम्ब ! किमिदम् ? सारः सम्पूर्णः लवणमयः । एतत् खादितुं कथं शक्येत ? मह्यं भोजनं मास्तु……” मातरं भर्त्सयमानः एव सः कोपेन गृहात् बहिः गतवान् । सायं दीपज्वालनसमयः अभवत् । तथापि सः युवा पुत्रः गृहं न आगतः । रात्रौ अष्टवादनसमये आगतः सः हस्तपादं प्रक्षाल्य दूरदर्शनस्य पुरतः आसन्दे उपाविशत्, हस्तेन नियन्त्रकं (रिमोट्) गृहीत्वा । निमेषाभ्यन्तरे पिता पुत्रस्य समीपम् आगतः । तं दृष्ट्वा पुत्रः चिन्तितवान् – ‘किमिदं पिता मम समीपे एव आगच्छति ! एतावत्पर्यन्तम् एकवारमपि जलपनादिकं तेन न कृतं मया सह । इदानीं मां गर्हयितुम् एव आगच्छन् स्यात् प्रायः सः । ....’ परन्तु अवनतवदनस्य पुत्रस्य पार्श्वे उपविशन् पिता प्रावोचत् – “वत्स, भवान् मध्याह्ने भोजनं कृतवान् ननु ?” “......” “वत्स ! भवन्तम् एव अहं पृच्छामि । भवान् मध्याह्ने भोजनं कृतवान् किम् ?” “आम् !” – किञ्चित् रूक्षतया अवदत् पुत्रः । “कुत्र ?” मृदुस्वरेण एव अपृच्छत् पिता । “मम सुहृदः माम् उपहारमन्दिरं नीत्वा भोजनं कारितवन्तः” – किञ्चिदपि अविचलितः सन् पुत्रः उक्तवान् । “सुष्ठु, पुत्र ! सुष्ठु । भवान् भोजनं कर्तुम् इच्छति चेत् भवता समये अपि विश्वे गृहाणि प्राप्येरन् । तत्र ते तुभ्यं स्वादु भोजनमपि दद्युः । परन्तु भवतः मात्रे अस्माकं गृहमेव प्रपञ्चः । तस्याः लोके अहं, भवान्, भवतः अनुजा च एव वसामः । अस्माकं त्रयाणां हितमेव तस्याः लक्ष्यम् । भवता भोजनं न कृतम् इत्यतः सा एतावत्पर्यन्तं बिन्दमात्रं जलम् अपि न स्वीकृतवती । इतोऽपि तस्याः मनः परितप्तम् अस्ति – ‘अद्य मया किं कृतम् । पाकसमये मम अवधानं कुत्र आगच्छत् ? मम अजागरूकताकारणतः सारः लवणमयः जातः । तदर्थं पुत्रः किञ्चिदपि न भुक्तवान् । सः कुत्र गतवान् स्यात् ? क्षुत्पिपासानिवारणार्थं सः कीदृशं कष्टम् अनुभूतवान् स्यात् इति न ज्ञायते’ इति” इति उक्तवान् पिता । पितुः हृदयस्पशिर्नी वाणीं श्रुत्वा पुत्रः आत्मावलोकनम् अकरोत् । ततः सावधानतया उत्थाय शनैः शनैः जनयित्र्याः समीपम् अगच्छत् । सा म्लानवदना खिन्ना च भूत्वा उपविशन्ती आसीत् तत्र । पुत्रः विनयेन ताम् उपसर्प्य मृदुमधुरेण मन्द्रस्वरेण अकथयत् – “अम्ब ! महती बुभुक्षा मम । किं न परिवेषयसि अविलम्बेन ?” इति ।

जल्पनादिकं तेन न कृतं मया सह इति वाक्यं कस्मिन् वाच्ये लिखितम् ?

1
कर्तृवाच्ये
2
भाववाच्ये
3
कर्मवाच्ये
4
कर्मकर्तृवाच्ये
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: Paper 1
Chapter: वाक्य परिवर्तन
Topic: वाक्यपरिवर्तनम् (लट्लकारस्य)
Correct Answer
Option C
Explanation

वाक्य "जल्पनादिकं तेन न कृतं मया सह" में "कृतं" क्रिया का प्रयोग हुआ है, जो कि कर्मवाच्य (passive voice) में है। आइए इसे विस्तार से समझते हैं: 1. कर्मवाच्ये (Passive Voice): - कर्मवाच्य में क्रिया का मुख्य ध्यान कर्म पर होता है, न कि कर्ता पर। इस वाक्य में "जल्पनादिकं" (बातचीत आदि) कर्म है, और "तेन" (उसके द्वारा) कर्ता है। "मया सह" (मेरे साथ) यह दर्शाता है कि क्रिया किसके…Read More

Similar Questions from CTET Exam - Paper 1 - Year 2021
Question 1
Easy

Source :

CTET 2021
अधोलिखितं गद्यांशं पठित्वा तदाधारित – प्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत – सः कश्चन लघुकुटुम्बः । तस्मिन् पितरौ, पुत्रः, पुत्री च आसन् । एकस्मिन् दिने…
Chapter :
वाक्य परिवर्तन
Topic :
वाक्यपरिवर्तनम् (लट्लकारस्य)
Question 2
Easy

Source :

CTET 2021
अधोलिखितं गद्यांशं पठित्वा तदाधारित – प्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत – सः कश्चन लघुकुटुम्बः । तस्मिन् पितरौ, पुत्रः, पुत्री च आसन् । एकस्मिन् दिने…
Chapter :
वाक्य परिवर्तन
Topic :
वाक्यपरिवर्तनम् (लट्लकारस्य)
Question 3
Easy

Source :

CTET 2021
निर्देशः : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत – कदाचित् कश्चन महात्मा प्रयाणावसरे पिपासाम् अनुभूतवान् । समीपे एव तेन एकः कुटीरः दृष्टः ।…
Chapter :
वाक्य परिवर्तन
Topic :
वाक्यपरिवर्तनम् (लट्लकारस्य)
Question 4
Easy

Source :

CTET 2023
निर्देश : अधोलिखितान् श्लोकान् पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत । शान्तितुल्यं तपो नास्ति न सन्तोषात्परं सुखम् । न तृष्णायाः परो व्याधिर्न च धर्मो दयापरः…
Chapter :
वाक्य परिवर्तन
Topic :
वाक्यपरिवर्तनम् (लट्लकारस्य)
Jalpanadikam tena na kritam maya saha va - CTET Paper 1 | Clear Cutoff