Question
Easy

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत ।

उल्लालराज्यं किञ्चन लघुसंस्थानम् । तत् सम्पद्भरितम् आसीत् । प्रजाः च सन्तोषेण जीवन्ति स्म तत्र । तत्र एलालवङ्गमरीचादीनाम् उत्पत्तिः अधिका । तानि क्रेतुं विदेशीयाः बहवः आयान्ति स्म । सम्पत्तिकारणतः तस्य संस्थानस्य राजा विलास-प्रियः जातः । गच्छता कालेन तस्य मद्यपानप्रवृत्तिः अधिका जाता । वाणिज्यारर्थम आगताः पोर्तुगीसाः कदाचित् कांश्चन प्रदेशान् जित्वा भारते स्वशासनम् आरब्धवन्तः । उल्लालसंस्थानस्य राज्ञे अधिकाधिकं मद्यं दत्त्वा ते तस्य गाढां मैत्रीं सम्पादितवन्तः । राज्ञः मद्यसेवनप्रवृत्तिः यदा अधिका जाता तदा राज्ञी अभयादेवी तं बहुधा बोधितवती । तथापि राज्ञः व्यवहारे कोऽपि परिष्कारः न जातः । अथ कदाचित् पोर्तुगीसैः प्रेरितः राजा तेषां केन्द्रं गत्वा तत्रैव वासम् आरब्धवान् । मद्यपानाय यत् मद्यं क्रेतव्यं, तन्निमित्तं स्वसंस्थानमेव पोर्तुगीसाधीनं कृतवान् सः । राजा यदा पोर्तुगीसकेन्द्रे वासम् आरब्धवान् तदा मन्त्रिभिः बोधिता राज्ञी संस्थानरक्षणाय स्वयं शासनसूत्रं गृहीतवती, राजानं देशद्रोहित्वेन उद्घोषितवती च । पोर्तुगीसजनाः राज्ञा दत्तं पत्रं गृहीत्वा उल्लाल-संस्थानम् आगताः । अभयादेवी तैः आनीतं पत्रं दृष्ट्वा क्रुद्धा सती तत् पत्रं विच्छिद्य क्षिप्तवती । "वयं युद्धं सम्मुखीकर्तुं सज्जाः । किन्तु देशम् अन्याधीनं न करिष्यामः एव" इति धैर्येण अवदत् सा । एतस्मात् क्रुद्धाः पोर्तुगीसाः ससैन्यं युद्धाय आगताः । अभयादेवी प्रतिवेशिराज्यानां साहाय्यं याचितवती । केचन राजानः साहाय्यार्थम् आगताः । पोर्तुगीसाः उल्लालराजं पुरतः संस्थाप्य युद्धम् अकुर्वन् । एतस्मिन् युद्धे पोर्तुगीसानां पराजयः जातः । ते पलायनम् अकुर्वन् । उल्लालराजः अपि पलायनं कुर्वन् बाणेन आहतः सन् रणरङ्गे अपतत् । पोर्तुगीसाः तं परित्यज्य धावितवन्तः । एकाकितया भूमौ पतितं राजानम् अभयादेवी राजभवनम् आनीतवती । वैद्याः तस्य विशेषोपचारं कृतवन्तः । किन्तु ततः प्रयोजनं किमपि न सिद्धम् । स्वदोषार्थं राज्ञीं क्षमां याचन् राजा प्राणवियोगं प्राप्तवान् । राज्ञी तस्य अन्त्यसंस्कारं निर्वर्तितवती । ततः तया धर्मेण शासनं कृतम् । स्वदेशस्य रक्षणार्थं धैर्येण युद्धं कृतवत्याः स्वातन्त्र्यप्रियायाः अभयादेव्याः चरितं निश्चयेनास्ति प्रेरणादायकं ननु ?

जीवन्ति स्म इति पदद्वयस्य मिलित्वा अर्थः _____

1
अजीवन्
2
अजीवम्
3
अजीवत्
4
अजीवत
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: Paper 2
Chapter: शब्दज्ञानम्
Topic: धातुरूप
Correct Answer
Option A
Explanation

"जीवन्ति स्म" इति पदद्वयस्य मिलित्वा अर्थः "अजीवन्" इति विकल्पः उचितः अस्ति। संस्कृत भाषा में "स्म" का प्रयोग भूतकाल के लिए होता है। "जीवन्ति" का अर्थ है "जीते हैं" या "जीवित रहते हैं"। जब इसे "स्म" के साथ जोड़ा जाता है, तो यह भूतकाल में "जीते थे" या "जीवित रहते थे" का अर्थ देता है। अब अन्य विकल्पों का विश्लेषण करते हैं: 1. अजीवम्: यह विकल्प गलत है क्योंकि यह संस्कृत…Read More

Similar Questions from CTET Exam - Paper 2 - Year 2021
Question 1
Easy

Source :

CTET 2019
अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत विन्ध्यपर्वतमालायाः मध्ये चित्रकूटं नाम तीर्थस्थलम् अस्ति । स्थानमिदं कोलाहलरहितं प्राकृतिकसौन्दर्यसम्पन्नमस्ति । अत्र आगमनेन दर्शनेन च आनन्दानुभूतिः…
Chapter :
शब्दज्ञानम्
Topic :
धातुरूप
Question 2
Easy

Source :

CTET 2019
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत – पुरा वाल्मीकिः नाम एक ऋषिः आसीत् । एकदा सः स्नातुं तमसातीरमग्छत् । मार्गे…
Chapter :
शब्दज्ञानम्
Topic :
धातुरूप
Question 3
Easy

Source :

CTET 2023
निर्देशः : अधोलिखितान् श्लोकान् पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत । विद्या ददाति विनयं विनयाद्याति पात्रताम् । पात्रत्वाद् धनमाप्नोति धनाद धर्मं ततः सुखम् ॥ 1…
Chapter :
शब्दज्ञानम्
Topic :
धातुरूप
Question 4
Easy

Source :

CTET 2023
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत । मन्दरपर्वते दुर्दान्तः नाम सिंहः वसति स्म । सः च सर्वदा बहूनां पशूनां वधं…
Chapter :
शब्दज्ञानम्
Topic :
धातुरूप