Question
Easy

अधोलिखितं गद्यांशं पठित्वा तदाधारित प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत । अस्ति कस्यचिन्महीपतेः कस्मिश्चित्स्थाने मनोरमं शयनस्थानम् । तत्र शुक्लतरपटयुगलमध्यसंस्थिता मन्दविसर्पिणी नाम श्वेता यूका प्रतिवसति स्म । सा च तस्य महीपते रक्तमास्वादयन्ती सुखेन कालं नयमाना तिष्ठति । अन्येद्युश्च तत्र शयने क्वचिद् भ्राम्यन् अग्निमुखो नाम मत्कुणः समायातः । अथ तं दृष्ट्वा सा विषण्णवदना प्रोवाच – “भो अग्निमुख ! कुतस्त्वमत्रानुचितस्थाने समायातः ? तद्यावद् न कश्चिद् पश्यति, तावच्छीघ्रं गम्यताम्” इति । स आह – “भगवति ! गृहागतस्य असाधोरपि नैतद्युज्यते वक्तुम् । अपरं मयाऽनेक मानुषाणां अनेकविधानि रुधिराण्यास्वादितानि आहारदोषात् कटुतिक्तकषायाऽम्लरसास्वादानि । न च मया कदाचितम् धुरक्तं समास्वादितम् । तद्यदि त्वं प्रसादं करोषि, तदस्य नृपतेः विविधव्यञ्जनान्ज पानचोष्यलेह्यस्वादाहारवशात् शरीरे यन्मिष्टं रक्तं सञ्जातं, तदास्वादनेन सौख्यं संपादयामि जिह्वायाः” इति तच्ध्रुत्वा मन्दविसर्पिणी आह, “भो मत्कुण ! अहमस्य नृपतेर्निद्रावशं गतस्य रक्तम् आस्वादयामि । पुनः त्वम् अग्निमुखः चपलश्च । तद्यदि मया सह रक्तपानं करोषि, तत्तिष्ठ, अभीष्टतरं रक्तमास्वादय, सोऽब्रवीत- “भगवति ! एवं करिष्यामि । यावच्वं नास्वादयसि प्रथमं नृपरक्तं, तावन्मम देवगुरुकृतः शपथः स्यात् यदि तदास्वादयामि।” एवं तयोः परस्परं वदतोः, स राजा तच्छयनमासाद्य प्रसुप्तः । अथाऽसौ मत्कुणः जिह्वालौल्यात् जाग्रतमपि तं महीपतिम् अदशत् । अथाऽसौ महीपतिः सूच्यग्रविद्ध इव तच्छयनं त्यक्त्वा तत्क्षणादेवोत्थितः, प्राह च, अहो, ज्ञायतामत्र प्रच्छदनपटे मत्कुणो यूका वा नूनं तिष्ठति, येनाहं दष्टः” । इति । अथ ये कञ्चुकिनः तत्र स्थिताः ते सत्वरं प्रच्छादनपटं गृहीत्वा सूक्ष्मदृष्ट्या वीक्षाचक्रुः । अत्रान्तरे स मत्कुणः चापल्यात खट्वान्तं प्रविष्टः । सा मन्दविसर्पिण्यपि वस्त्रसंध्यन्तर्गता तैर्दृष्टा, व्यापादिता च । ‘नृपतेः’ इति पदे का विभक्तिः ?

1
प्रथमा
2
षष्ठी
3
द्वितीया
4
सप्तमी
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P2
Chapter: कारक एवं विभक्ति
Topic: विभक्ति
Correct Answer
Option B
Explanation

'नृपतेः' इति पदे 'षष्ठी' विभक्तिः अस्ति। विभक्तियों का उपयोग संस्कृत में विभिन्न प्रकार के संबंधों को व्यक्त करने के लिए किया जाता है। 'नृपतेः' शब्द में 'नृपतिः' (राजा) का 'षष्ठी' विभक्ति का प्रयोग हुआ है, जो यह दर्शाता है कि यह शब्द किसी वस्तु या व्यक्ति के संबंध में है। यहाँ 'नृपतेः' का अर्थ है 'राजा का' या 'राजा से संबंधित'। अब अन्य विकल्पों की चर्चा करते हैं: 1. प्रथमा:…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

कारक एवं विभक्ति
निम्नलिखितं गद्यांशं पठित्वा प्रश्नानानाम् उत्तराणि यथोचितं विकल्पं चित्वा देयानि - संस्कृतभाषा भारतवर्षस्य संस्कारभाषा। भारते संस्कृत-भाषायाः प्रतिदिनं विविधसंस्कारकार्येषु प्रयोगः भवति। एतस्याः अनेकासु विशेषतासु इयम् अन्यतमा विशेषता…
Chapter :
कारक एवं विभक्ति
Topic :
विभक्ति
Question 2
Easy

Source :

कारक एवं विभक्ति
अधोलिखितं गद्यांशं पठित्वा तदाधारित प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत। अस्ति कस्मिश्चिज्जलाशये कम्बुग्रीवो नाम कच्छपः । तस्य च सङ्कटविकटनाम्नी मित्रे हंसजातीये परमस्नेह कोटिमाश्रिते, नित्यमेव सरस्तीरमासाद्य…
Chapter :
कारक एवं विभक्ति
Topic :
विभक्ति
Question 3
Easy

Source :

कारक एवं विभक्ति
अधोलिखितं गद्यांशं पठित्वा तदाधारित प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत । कश्चिद् गोमायुः नाम शृगालः क्षुत्क्षामकण्ठ इतस्ततः आहारक्रियार्थं परिभ्रमन् वने सैन्यद्वयसङ्ग्रामभूमिम् अपश्यत् । तस्यां च…
Chapter :
कारक एवं विभक्ति
Topic :
विभक्ति
Question 4
Easy

Source :

कारक एवं विभक्ति
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत – उपवने विचरणं कुर्वन् राजकुमारः एकेन विषधरेण दष्टः अभूत् । अचेतनं तं तस्य सहचराः राज्ञे निवेदि‍तवन्तः ।…
Chapter :
कारक एवं विभक्ति
Topic :
विभक्ति