Question
Easy

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत –

उपवने विचरणं कुर्वन् राजकुमारः एकेन विषधरेण दष्टः अभूत् । अचेतनं तं तस्य सहचराः राज्ञे निवेदि‍तवन्तः । सम्पूर्णे राजपरिवारे शोकः आच्छत्रः । एकमात्रं सः एव राज्ञः प्रियतमः उत्तराधिकारी आसीत् । राजवैद्याः तस्य चिकित्सां अकुर्वन् । किन्तु सफलता नैव मिलिता । राजज्योतिषिणा तस्य दीर्घायुष्यं जन्मपत्रतः दृष्ट्वा एकः उपायः कथितः यत् यदि काचित् सती साध्वी स्त्री राजकुमारं दष्ट-स्थाने स्पृशेत् तर्हि अयं स्वस्थः भवेत् । राज्ञः अनेकपल्यः आसन् । राजकुमारस्य जननी अपि तासु एका आसीत् । सा प्रथमं ततः च क्रमशः सर्वाः अपि राज्ञः राजकुमारं स्पृष्टवत्यः । किन्तु राजकुमारस्य चेतना नैव आयाता । अनेन राज्ञीनाम् असतीत्वम् अपि प्रकटितम् अभूत् । पुरस्कार-लोभेन राजस्वस्य अन्याभिः अपि महिलाभिः चेष्टा कृता । किन्तु ताः अपि विफलाः एव अतिष्ठन् । अन्ते तेन एव राजज्योतिषिणा राजा निवेदितः यत् अधुना एव राज्य-सीमा‍य‍म् एका युवतिः स्वस्य पत्या सह प्रविष्टा अस्ति । कदाचित् सा कार्यं साधयेत् । राजा एकाकी एव ताम् आनेतुं निर्गतः । ताम् उपेत्य सः अनुनयं विनयं कृत्वा राजभवनम् आनीतवान् । तस्याः स्पर्शमात्रेण राजकुमारः तत्क्षणम् एव सुप्तोत्थितः इव जागरितः । सर्वेषां हर्षेण मुख-कमलानि विकसितानि अजायन्त । विरक्तः राजा स्वीयं राज्यार्धं ताभ्यां दम्पतिभ्याम्, अवशिष्टं च आत्मजाय समर्प्य तपः तप्तुं वनं प्रस्थितः इति ।

सीमायाम्-इत्यस्मिन् पदे का विभक्तिः किञ्च वचनम् अस्ति ?

1
द्वितीया विभक्तिः, एकवचनम्
2
चतुर्थी विभक्तिः, द्विवचनम्
3
सप्तमी विभक्तिः, एकवचनम्
4
षष्ठी विभक्तिः, बहुवचनम्
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: Paper 2
Chapter: कारक एवं विभक्ति
Topic: विभक्ति
Correct Answer
Option C
Explanation

"सीमायाम्" शब्द का विश्लेषण करते समय हमें यह देखना होगा कि यह किस विभक्ति और वचन में है। "सीमा" शब्द एक स्त्रीलिंग संज्ञा है। जब हम "सीमायाम्" का प्रयोग करते हैं, तो यह सप्तमी विभक्ति का एकवचन रूप है। सप्तमी विभक्ति का प्रयोग स्थान, समय या अन्य किसी विशेषता को दर्शाने के लिए किया जाता है। यहाँ "सीमायाम्" का अर्थ है "सीमा में" या "सीमा पर", जो कि स्थान को…Read More

Similar Questions from CTET Exam - Paper 2 - Year 2024
Question 1
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा तदाधारित प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत । अस्ति कस्यचिन्महीपतेः कस्मिश्चित्स्थाने मनोरमं शयनस्थानम् । तत्र शुक्लतरपटयुगलमध्यसंस्थिता मन्दविसर्पिणी नाम श्वेता यूका प्रतिवसति स्म…
Chapter :
कारक एवं विभक्ति
Topic :
विभक्ति
Question 2
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा तदाधारित प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत । कश्चिद् गोमायुः नाम शृगालः क्षुत्क्षामकण्ठ इतस्ततः आहारक्रियार्थं परिभ्रमन् वने सैन्यद्वयसङ्ग्रामभूमिम् अपश्यत् । तस्यां च…
Chapter :
कारक एवं विभक्ति
Topic :
विभक्ति
Question 3
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । प्राचीनकाले वाल्मीकिः नाम एकः ऋषिः आसीत् । एकदा स्वशिष्यैः सह सः तमसानद्याः तटे विहरति स्म ।…
Chapter :
कारक एवं विभक्ति
Topic :
विभक्ति
Question 4
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा अस्ति । विश्वस्य प्राचीनतमः ग्रन्थः ‘ऋग्वेदः’ अस्यामेव भाषायाम् लिखितः अस्ति ।…
Chapter :
कारक एवं विभक्ति
Topic :
विभक्ति