Question
Easy

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत ।

संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा अस्ति । विश्वस्य प्राचीनतमः ग्रन्थः ‘ऋग्वेदः’ अस्यामेव भाषायाम् लिखितः अस्ति । इयम् भाषा सुरवाणी, देववाणी, गीर्वाणवाणी, सुरभारती, देवभाषा प्रभृतिभिः नामभिः लोके विख्याता अस्ति । इयम् रम्या, मधुरा, दिव्या, सरला, सरसा च भाषा अस्ति । इयम् भाषा अलौकिकैः गुणैः समृद्धा वर्तते । इयमेव भाषा सर्वासाम् भारतीयभाषाणाम् जननी । सर्वासु एव भाषासु संस्कृतशब्दाः प्राचुर्येण उपलभ्यन्ते । वेदाः, उपनिषदः, पुराणानि, रामायणम्, महाभारतम्–इत्यादयः हिन्दूनाम् अनेके धार्मिकाः ग्रन्थाः संस्कृते एव लिखिताः सन्ति । विश्वविख्याता गीता महाभारतस्यैव अंशः अस्ति । महाकवेः कालिदासस्य रघुवंशम् अभिज्ञानशाकुन्तलम् च, भवभूतेः उत्तररामचरितादयः ग्रन्थाः संस्कृतसाहित्ये विशेषरूपेण प्रसिद्धाः सन्ति । एतान् पठित्वा न केवलं भारतीयाः अपितु वैदेशिकाः अपि चकितचकिताः भवन्ति । अस्याः अध्ययनेनैव अस्माकं सर्वेषाम् नैतिकम्, आध्यात्मिकम्, सामाजिकम् च कल्याणम् संभवम् किन्तु दुःखस्य विषयोऽयं यत् अधुना जनाः संस्कृतभाषाम् संस्कृतसाहित्यम् च पठितुम् नैव इच्छन्ति । आधुनि‍के कलियुगे आंग्लभाषायाः एव महत्त्वम् वर्तते । स्वसंस्कृतिम् ज्ञातुमपि संस्कृतस्य अध्ययनम् अनिवार्यं वर्तते । अतः संस्कृतभाषायाः माहात्म्यं गौरवं च विज्ञाय अस्माभिः सर्वैः अस्याः प्रचारे प्रसारे च प्रयत्नः करणीयः ।

अधोलिखितेषु किं तृतीया विभक्तेः पदं न अस्ति ?

1
नामभिः
2
गौरवम्
3
प्राचुर्येण
4
अस्माभिः
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: Paper 2
Chapter: कारक एवं विभक्ति
Topic: विभक्ति
Correct Answer
Option B
Explanation

संस्कृत में तृतीया विभक्तिः का प्रयोग तब होता है जब किसी संज्ञा का संबंध किसी अन्य संज्ञा से प्रकट करना हो। तृतीया विभक्तिः का प्रयोग साधारणतः 'से', 'के द्वारा', 'के लिए' आदि अर्थों में होता है। अब हम विकल्पों का विश्लेषण करते हैं: 1. नामभिः - यह शब्द तृतीया विभक्तिः में है। इसका अर्थ है 'नामों द्वारा'। यहाँ 'भिः' तृतीया विभक्तिः का संकेत है। 2. गौरवम् - यह शब्द प्रथमा…Read More

Similar Questions from CTET Exam - Paper 2 - Year 2024
Question 1
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत – उपवने विचरणं कुर्वन् राजकुमारः एकेन विषधरेण दष्टः अभूत् । अचेतनं तं तस्य सहचराः राज्ञे निवेदि‍तवन्तः ।…
Chapter :
कारक एवं विभक्ति
Topic :
विभक्ति
Question 2
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । प्राचीनकाले वाल्मीकिः नाम एकः ऋषिः आसीत् । एकदा स्वशिष्यैः सह सः तमसानद्याः तटे विहरति स्म ।…
Chapter :
कारक एवं विभक्ति
Topic :
विभक्ति
Question 3
Easy

Source :

CTET 2019
संकेत : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत : पावनसलिला नर्मदा अस्माकं प्रदेशस्य जीवनदायिनी सरित् अस्ति । एषा एव रेवा इति नाम्नापि…
Chapter :
कारक एवं विभक्ति
Topic :
वचन
Question 4
Easy

Source :

CTET 2024
अधोलिखितान् श्लोकान् पठित्वा प्रश्नानानां विकल्पात्मकोत्तरेभ्य उचिततमम् उत्तरं चित्वा लिखत - स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः। स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु।। यतः प्रवृत्तिर्भूतानां येन सर्वमिदं…
Chapter :
कारक एवं विभक्ति
Topic :
लिंग