Question
Easy

अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत विन्ध्यपर्वतमालायाः मध्ये चित्रकूटं नाम तीर्थस्थलम् अस्ति । स्थानमिदं कोलाहलरहितं प्राकृतिकसौन्दर्यसम्पन्नमस्ति । अत्र आगमनेन दर्शनेन च आनन्दानुभूतिः जायते । चित्रकूटे सघनानि वनानि सन्ति । अत्र बहवः निर्झराः सन्ति । सर्वत्रापि हरितिमा राजते । चित्रकूटस्य धार्मिकं सांस्कृतिकं च महत्त्वं विद्यते । कथ्यते यत् सीतालक्ष्मणाभ्यां सह वनवासकाले श्रीरामः एकादशवर्षाणि यावत् चित्रकूटे एवं निवासं कृतवान् । महर्षिः अत्रिः साध्वी अनुसूया च अत्रैव तपस्यां कृत्वा आत्मज्ञानम् अलभेताम् । अत्र अनेकानि दर्शनीयानि स्थलानि सन्ति । रामघट्टः - मन्दाकिन्याः तटे रामघट्टः अस्ति । अत्र प्रायेण तीर्थयात्रिणां सम्मर्दः भवति । सायंकाले मन्दाकिन्याः नीराजनसमये मनोरमदृश्यं भवति । रामघट्टात् नातिदूरमेव जानकीकुण्डम् अस्ति । वनवासे सीता अत्रैव स्नानं करोति स्म । सघनवनमध्ये अनुसूयाश्रमः विद्यते । अत्र पक्षिणां कलरवः निर्झरध्वनिः शीतलवायुश्च मनांसि रञ्जयन्ति । एतदेव मन्दाकिन्याः उद्गमस्थलम् । जानकी कुण्डसमीपे एव विशाला शिला दर्शनीया वर्तते । चित्रकूटतः पञ्चक्रोशदूरम् नयनाभिरामं सौन्दर्ययुक्तं गुप्तगोदावरीस्थलं वर्तते । अत्र निरन्तरं जलं प्रवहति । तत्रैव हनुमानधारास्थलं वर्तते । अत्र उच्चस्थलात् जलं पतति । 'रञ्जयन्ति' इति पदस्य एकवचने कि पदं भवति ?

1
रञ्जयतः
2
रञ्जयति
3
रञ्जयामि
4
रञ्जयसि
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P2
Chapter: शब्दज्ञानम्
Topic: धातुरूप
Correct Answer
Option B
Explanation

'रञ्जयन्ति' इति पदस्य एकवचन रूपं 'रञ्जयति' भवति। संस्कृत व्याकरणानुसारं, 'रञ्जयन्ति' इति धातु रूपं तृतीयपुरुषे बहुवचनं अस्ति। तस्य एकवचन रूपं 'रञ्जयति' भवति। अब अन्य विकल्पों का विश्लेषण करते हैं: 1. रञ्जयतः: यह रूप द्वितीयपुरुषे द्विवचनं अथवा तृतीयपुरुषे द्विवचनं हो सकता है, जो कि प्रश्न के अनुसार सही नहीं है। 3. रञ्जयामि: यह रूप प्रथमपुरुषे एकवचनं है, जो कि 'मैं रंजित करता हूँ' का अर्थ देता है। यह भी प्रश्न के अनुसार…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

शब्दज्ञानम्
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत । एकदा दशबालकाः स्नानाय नदीम् अगच्छन् । ते निर्मले शीतले च नदीजले चिरं स्नानम् अकुर्वन्…
Chapter :
शब्दज्ञानम्
Topic :
शब्दरूप
Question 2
Easy

Source :

शब्दज्ञानम्
अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत विन्ध्यपर्वतमालायाः मध्ये चित्रकूटं नाम तीर्थस्थलम् अस्ति । स्थानमिदं कोलाहलरहितं प्राकृतिकसौन्दर्यसम्पन्नमस्ति । अत्र आगमनेन दर्शनेन च आनन्दानुभूतिः…
Chapter :
शब्दज्ञानम्
Topic :
धातुरूप
Question 3
Easy

Source :

शब्दज्ञानम्
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत – पुरा वाल्मीकिः नाम एक ऋषिः आसीत् । एकदा सः स्नातुं तमसातीरमग्छत् । मार्गे…
Chapter :
शब्दज्ञानम्
Topic :
धातुरूप
Question 4
Easy

Source :

शब्दज्ञानम्
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत । उल्लालराज्यं किञ्चन लघुसंस्थानम् । तत् सम्पद्भरितम् आसीत् । प्रजाः च सन्तोषेण जीवन्ति स्म तत्र । तत्र…
Chapter :
शब्दज्ञानम्
Topic :
धातुरूप