Question
Easy

अधोलिखितं गद्यांशं पठित्वा तदाधारित प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।

अस्ति कस्मिश्चिज्जलाशये कम्बुग्रीवो नाम कच्छपः । तस्य च सङ्कटविकटनाम्नी मित्रे हंसजातीये परमस्नेह कोटिमाश्रिते, नित्यमेव सरस्तीरमासाद्य तेन सहानेकदेवर्षि महर्षीणां कथाः कृत्वास्तमनवेलायां स्वनीडसंश्रयं कुरुतः । अथ गच्छता कालेन अनावृष्टिवशात् सरः शनैः शनैः शोषमगमत् । ततः तद्दुःखदुखितौ तावूचतुः - "भो मित्र! जम्बालशेषमेतत्सरः सञ्जातं, तत्कथं भवान् भविष्यतीति व्याकुलत्वं नो हृदि वर्तते ।" तच्छ्रुत्वा कम्बुग्रीव आह - भो साम्प्रतं नास्त्यस्माकं जीवितव्यं जलाभावात् । तथाप्युपायः चिन्त्यतामिति । तदानीयतां काचिद् दृढ़रज्जुलर्लघु - काष्ठं वा । अन्विष्यतां च प्रभूतजलसनाथं सरः, येन मया मध्यप्रदेेशे दन्तैर्गृहीते सति युवां कोटि भागयोस्तत्काष्ठं मया सहितं संगृह्य तत्खरो नयथः । तौ ऊचतुः – भो मित्र! एवं करिष्यावः । परं भवता मौनव्रतेन स्थातव्यम्, नो चेत् तव काष्ठात् पातो भविष्यति । तथानुष्ठिते, गच्छता, कम्बुग्रीवेणाधोभागे व्यवस्थितं किञ्चित् पुरमालोकितम् । तत्र ये पौरास्ते तथा नीयमानं विलोक्य सविस्मयमिदम् ऊचुः - अहो चक्राकारं किमपि पक्षिभ्यां नीयते, पश्यत ! पश्यत! अथ तेषां कोलाहलमाकर्ण्य कम्बुग्रीव आह - भोः किमेष कोलाहलः ? इति वक्तुमना अर्द्धोक्त एव पतितः पौरैः खण्डशः कृतश्च ।

सङ्कटनाम्नः कोऽसीत् ?

1
हंसः
2
कच्छपः
3
वानरः
4
काकः
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: Paper 2
Chapter: शुद्धि विचारः
Topic: वाक्य रचना
Correct Answer
Option A
Explanation

सङ्कटनाम्नः कोऽसीत्? प्रश्न में पूछा गया है कि संकट के समय में मित्र कौन था। गद्यांश में कम्बुग्रीव नामक कच्छप का उल्लेख है, जो अपने मित्र के रूप में हंस को संदर्भित करता है। 1. सही उत्तर (हंसः): गद्यांश में यह स्पष्ट रूप से कहा गया है कि कम्बुग्रीव का मित्र हंस जाति का है। जब जल का अभाव हुआ, तब कम्बुग्रीव ने हंस से सहायता मांगी। हंस ने संकट…Read More

Similar Questions from CTET Exam - Paper 2 - Year 2024
Question 1
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चित्वा लिखत । एकस्मिन् ग्रामे सत्यप्रियः नामकः एकः काष्ठिकः वसति स्म । सः प्रत्यहं वनं गत्वा कुठारेण काष्ठानि…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Question 2
Easy

Source :

CTET 2024
निम्नलिखितं गद्यांशं पठित्वा प्रश्नानां उत्तराणि विकल्पेभ्यः चित्वा दीयन्ताम् । एकस्मिन् अरण्ये कश्चन सिंहः प्रतिवसति स्म । एकदा सः सुप्तः आसीत् । तदा एकः मूषकः तस्य…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Question 3
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा तदाधारित प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत । अस्ति कस्यचिन्महीपतेः कस्मिश्चित्स्थाने मनोरमं शयनस्थानम् । तत्र शुक्लतरपटयुगलमध्यसंस्थिता मन्दविसर्पिणी नाम श्वेता यूका प्रतिवसति स्म…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Question 4
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा तदाधारित प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत । अस्ति कस्यचिन्महीपतेः कस्मिश्चित्स्थाने मनोरमं शयनस्थानम् । तत्र शुक्लतरपटयुगलमध्यसंस्थिता मन्दविसर्पिणी नाम श्वेता यूका प्रतिवसति स्म…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना