अधोलिखितं गद्यं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । उच्यते खलु 'शरीरमाद्यं खलु धर्मसाधनम्' । सत्यमिदम् । विना शरीर-स्वास्थ्यं किमपि शुभं कर्म न भवितुमर्हति । शरीरेणैव सर्वाणि शुभानि कार्याणि साधयितुं शक्यन्ते । शरीरस्य स्वास्थ्यायाधोलिखिताः नियमाः अवश्यं पालनीयाः - सर्वतः प्रथमं स्वस्थेन मनुष्येण ब्राह्मे मुहूर्ते उत्थातव्यम् । नियमितरूपेण दन्तधावनेन कूर्चिकया वा दन्तशुद्धिः कर्तव्या । प्रत्येकं दन्तं क्रमशः निर्मलं कृत्वा जलेन मुखं धावनीयम् । एवं मुखस्य सर्वं मलमपनीयते मुखरोगाश्च न भवन्ति । शीतलेन जलेन वदनप्रक्षालनं नेत्रयोश्च शुद्धिः हितकरी भवति । ततः सर्वस्मिन् शरीरे तैलमर्दनं विधेयम् । तैलमर्दनेन अङ्गानि बलिष्ठानि जायन्ते सौन्दर्यं च वर्धते । पुनः व्यायामः कर्तव्यः । व्यायामेन सम्यक् रक्तसञ्चारः, पेशीनां पुष्टिः, क्षुधावृद्धिः, शरीरे च स्फूर्तिः जायते । व्यायामानन्तरं किञ्चित्कालं स्थित्वा स्नानमपि विधेयम् । स्नानं प्रायः शीतलेन वारिणा कर्तव्यम्; परन्तु शिथिले शरीरे कदुष्णेन वारिणा स्नानं हितकरं भवति । स्नानं कृत्वा स्वच्छान्येव वस्त्राणि धारणीयानि, न तु मलिनानि । मलिनवस्त्राणां धारणमेतादृशमेव भवति यथा स्नात्वा पङ्कलेपः कृतः स्यात् । स्वास्थ्यरक्षार्थं स्वाहारेऽपि ध्यानं देयम् । यः यथासमयं भक्षयति, परिमितं च, सः कदापि जठररोगेण पीडितो न भवति । भोजनं सात्त्विकं, शुद्धं, पुष्टिकरं च स्यात् तच्च शान्तमनसा भोक्तव्यम् । यथा स्वच्छता, व्यायामः, भोजनं च स्वास्थ्याय उपयुक्तानि, तथैव विश्रामस्यापि महत्त्वमस्ति । ऋते विश्रामात् कश्चिदपि स्वस्थः स्थातुं न शक्नोति । विश्रामेण श्रमोऽपनीयते, तस्मात् विश्रामः स्वास्थ्याय परमावश्यकः । ये परीक्षा-दिनेषु निरन्तरं पठन्ति, न च विश्राम्यन्ति, ते विक्षिप्ताः जायन्ते, सर्वं पठितं च विस्मरन्ति । एवं च रुग्णीभूय परीक्षायामनुत्तीर्णाः जायन्ते । तस्माद्विश्रामस्यापि महत्यावश्यकता वर्तते । आलस्यं विश्रामस्य पर्यायो नास्ति । आलस्यं तु कर्मण्यनिच्छा भवति, विश्रामश्च कर्मणः करणाय नवशक्त्याः अर्जन-साधनम् भवति । तस्मान्मनुष्येणालसेन न भाव्यम्, परमावश्यको विश्रामः कर्तव्यः । 'श्रमोऽपनीयते'-इत्यस्मिन् पदे कः सन्धिः वर्तते ?
संधि का अर्थ है दो शब्दों के मेल से उत्पन्न ध्वनि परिवर्तन। 'श्रमोऽपनीयते' इत्यस्मिन् पदे 'श्रमः' और 'अपनीयते' शब्दों का मेल है। यहाँ पर 'श्रमः' शब्द का अंतिम अक्षर 'ः' (विसर्ग) है और 'अपनीयते' शब्द का प्रारंभिक अक्षर 'अ' है। जब विसर्ग के बाद स्वर 'अ' आता है, तो विसर्ग का उच्चारण 'ओ' के रूप में होता है। इस प्रकार 'श्रमः' और 'अपनीयते' के मेल से 'श्रमोऽपनीयते' बनता है। यह…Read More
Source :
Source :
Source :
Source :