निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत । एकदा बालः सिद्धार्थः प्रातः भ्रमणाय उपवनम् अगच्छत् । उपवने बहवः खगाः मधुरं कूजन्ति स्म । सिद्धार्थः पक्षिणः अपश्यत् । तेषां कलरवं श्रुत्वा अतुष्यत् । किंचित् कालानन्तरं तस्य भ्राता देवदत्तः अपि आखेटं कर्तुम् उपवनम् आगच्छत् । सः शरेण आकाशे एकं हंसम् अविध्यत् । शरेण विद्धः हंस भूमौ अपतत् । सिद्धार्थः करुणया तं हंसं कुटीरम् आनयत् । तत्र हंसस्य परिचर्याम् अकरोत् । देवदत्तः स्वशरेण विद्धं हंसं ग्रहीतुं तत्र आगच्छत् । सिद्धार्थः देवदत्तम् अवदत् – त्वं हंसं मारयितुम् इच्छसि, किन्तु अहम् एनं रक्षितुम् इच्छामि । त्वं घातकः, अहं रक्षकः । अतः अयं हंसः मम एव । अथ सिद्धार्थस्य देवदत्तस्य च मध्ये विवादः अभवत् । देवदत्तः सर्वं निवेदयितुं नृपस्य समीपम् अगच्छत् । सिद्धार्थः अपि तेन सह तत्र अगच्छत् । देवदत्तः नृपाय सर्वं वृत्तान्तम् अकथयत् । सिद्धार्थः अपि स्वपक्षम् अवदत् । नृपः तत् सर्वम् अशृणोत् निर्णयं च अकरोत् – अयं हंसः तु सिद्धार्थस्य एव, यतः सः अस्य रक्षकः । उक्तं हि – रक्षकः भक्षकात् श्रेष्ठः इति । सिद्धार्थस्य देवदत्तस्य च मध्ये किम् अभवत् ?
सिद्धार्थ और देवदत्त के बीच "विवादः" हुआ, जो विकल्प 4 को सही उत्तर बनाता है। गद्यांश में स्पष्ट रूप से उल्लेख किया गया है कि जब देवदत्त ने हंस को अपने तीर से घायल किया और उसे लेने के लिए आया, तो सिद्धार्थ ने उसे रोक दिया। सिद्धार्थ ने कहा कि वह हंस को बचाना चाहता है जबकि देवदत्त उसे मारना चाहता है। इस स्थिति ने दोनों के बीच एक…Read More
Source :
Source :
Source :
Source :