Question
Easy

निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत ।

पुरा एकस्मिन् वृक्षे एका चटका प्रतिवसति स्म । कालेन तस्याः सन्ततिः जाता । एकदा कश्चित् प्रमत्तः गजः तस्य वृक्षस्य अधः आगत्य तस्य शाखां शुण्डेन अत्रोटयत् । चटकायाः नीडं भुवि अपतत् । तेन अण्डानि विशीर्णानि । अथ सा चटका व्यलपत् । तस्याः विलापं श्रुत्वा काष्ठकूटः नाम खगः दुःखेन ताम् अपृच्छत् – ‘भद्रे, किमर्थं विलपसि ?’ इति । चटकावदत् – ‘दुष्टेनैकेन गजेन मम सन्ततिः नाशिता । तस्य गजस्य वधेनैव मम दुःखम् अपसरेत् ।’ ततः काष्ठकूटः तां बीणारवा-नाम्न्याः मक्षिकायाः समीपम् अनयत् । तयोः वार्तां श्रुत्वा मक्षिकावदत् – ‘ममापि मित्रं मण्डूकः मेघनादः अस्ति । शीघ्रं तमुपेत्य यथोचितं करिष्यामः ।’ तदानीं तौ मक्षिकया सह गत्वा मेघनादस्य पुरः सर्वं वृत्तान्तं न्यवेदयताम् । मेघनादः अवदत् – ‘यथाहं कथयामि तथा कुरुतम् । मक्षिके ! प्रथमं त्वं मध्याह्ने तस्य गजस्य कर्णे शब्दं कुरु, येन सः नयने निमील्य स्थास्यति । तदा काष्ठकूटः चञ्च्वा तस्य नयने स्फोटयिष्यति । एवं सः गजः अन्धः भविष्यति । तृषार्तः सः जलाशयं गमिष्यति । मार्गे महान् गर्तः अस्ति । तस्य अन्तिके अहं स्थास्यामि शब्दं च करिष्यामि । मम शब्देन तं गर्तं जलाशयं मत्वा सः तस्मिन्नेव गर्ते पतिष्यति मरिष्यति च ।’ अथ तथाकृते सः गजः मध्याह्ने मण्डूकस्य शब्दम् अनुसृत्य महतः गर्तस्य अन्तः पतितः मृतः च । तथा चोक्तम् – ‘बहूनामप्यसाराणां समवायो हि दुर्जयः ।’

'तृषार्तः' इत्यस्य शब्दस्य विग्रहं कृत्वा समासस्य नाम दीयताम् ।

1
तृषया आर्तः य सः तृषार्तः बहुव्रीहिः
2
तृषया आर्तः तृतीया तत्पुरुषः
3
तृषायै आर्तः चतुर्थी तत्पुरुषः
4
तृषायाः आर्तः पञ्चमी तत्पुरुषः
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: Paper 2
Chapter: समास परिचयः
Topic: समास
Correct Answer
Option B
Explanation

'तृषार्तः' शब्द का विग्रह 'तृषया आर्तः' है, जो कि तृतीया तत्पुरुष समास है। 1. Option 2: तृषया आर्तः तृतीया तत्पुरुषः - यह विकल्प सही है क्योंकि 'तृषार्तः' शब्द में 'तृषा' (प्यास) के कारण 'आर्तः' (पीड़ित) होने का भाव है। यहाँ 'तृषा' के साथ 'आर्तः' का संबंध तृतीया विभक्ति में है, जो तृतीया तत्पुरुष समास को दर्शाता है। इस प्रकार, 'तृषया आर्तः' का अर्थ है 'प्यास से पीड़ित', जो तृतीया तत्पुरुष…Read More

Similar Questions from CTET Exam - Paper 2 - Year 2023
Question 1
Easy

Source :

CTET 2021
निर्देश : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत – भवन्ति बहवः भारतीयाः अपि तादृशाः, ये भारतं सततं निन्दन्ति, भारते लब्धजन्मानं स्वमपि निन्दन्ति ।…
Chapter :
समास परिचयः
Topic :
समास
Question 2
Easy

Source :

CTET 2023
निर्देश : अधोलिखितान् श्लोकान् पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत । शान्तितुल्यं तपो नास्ति न सन्तोषात्परं सुखम् । न तृष्णायाः परो व्याधिर्न च धर्मो दयापरः…
Chapter :
समास परिचयः
Topic :
समास
Question 3
Easy

Source :

CTET 2024
निम्नलिखितानि पद्यानि पठित्वा प्रश्नानानाम् उत्तराणि यथोचितं विकल्पं चित्वा देयानि - खलः सर्षपमात्राणि परच्छितद्राणि पश्यति । आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ॥ 1 ॥ सर्पदुर्जनयोर्मध्ये वरं…
Chapter :
समास परिचयः
Topic :
समास
Question 4
Easy

Source :

CTET 2024
निम्नलिखितं गद्यांशं पठित्वा प्रश्नानानाम् उत्तराणि यथोचितं विकल्पं चित्वा देयानि - संस्कृतभाषा भारतवर्षस्य संस्कारभाषा। भारते संस्कृत-भाषायाः प्रतिदिनं विविधसंस्कारकार्येषु प्रयोगः भवति। एतस्याः अनेकासु विशेषतासु इयम् अन्यतमा विशेषता…
Chapter :
समास परिचयः
Topic :
समास