संकेत : अधोलिखित गद्यांश पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत : वाग्भटः विख्यातः प्राचीनः वैद्यराजः । सः सिन्धप्रान्ते जन्म अलभत । सः आसीत् पञ्चमे शतके । तेन आयुर्वेदशास्त्रे विपुलं संशोधनं कृतम् । तेन लिखितस्य ग्रन्थस्य नाम – 'अष्टाङ्गसंहिता' इति । अद्यापि सः ग्रन्थः प्रमाणभूतः मन्यते । तिबेटतः रामेश्वरपर्यन्तं तस्य कीर्तिः प्रसृता । एतं ग्रन्थम् अधिकृत्य अद्य यावत् २९ भाष्यविवरणग्रन्थाः प्रसिद्धाः सन्ति । एकदा धन्वन्तरिः व्यचिन्तयत् – 'पृथिवीतले विद्यमानानां विविधानां वैद्यानां परीक्षा करणीया' इति । अतः तेन शुकस्य रूपं धृतम् । सः एकं एव प्रश्नं त्रिवारम् उच्चार्य वैद्यान् पृष्टवान् । सः प्रश्नः आसीत् – 'कोऽरुक् ? कोऽरुक् ? कोऽरुक् ?" (कः आरोग्यसम्पन्नः भवति इत्यर्थः) वैद्याः विविधानि उत्तराणि दत्तवन्तः केचन तु सदीर्घम् उत्तरं दत्तवन्तः । किन्तु कस्यापि उत्तरेण धन्वन्तरिः न सन्तुष्टः । अन्ते शुकः वाग्भटं प्रति आगतः । वाग्भटः स्नानार्थं नदीतीरं गच्छती स्म । शुकरूपधारी धन्वन्तरिः मार्गे स्थितस्य एकस्य वृक्षस्य शाखायाम् उपविष्टः । तेन वाग्भटाय त्रिवारं प्रश्नः कृतः – 'कोऽरुक् ? कोऽरुक् ? कोऽरुक् ?' वाग्भटेन ज्ञातं यत् एषः न सामान्यः पक्षी इति । सः पक्षिणम् नमस्कृतवान् । पक्षिणे सत्काररूपेण फलानि तेन अर्पितानि । शुकः अवदत् – "आदौ उत्तरं दातव्यम् । यदि उत्तरं तृप्तिकरं स्यात् तर्हि एव अहम् उपहारं स्वीकरिष्यामि" इति । वाग्भटः क्षणमात्रं चिन्तितवान् । त्रयाणां प्रश्नानाम् एकम् एव उत्तरं सः दत्तवान् - "हितभुक्, मितभुक् उष्णभुक्" इति । तस्य आशयः - आहारः हितकारः मितरूपः उष्णः च भवेत् इति । वाग्भटस्य उत्तरेण शुकः सन्तुष्टः अभवत् । सः उपहारं स्वीकृत्य ततः निर्गच्छत् । उष्णभुक् इति समस्तपदस्य विग्रहः कथं स्यात् ?
उष्णभुक् इति समस्तपदस्य विग्रहः "उष्णं भुङ्क्ते इति" विकल्पः सही है। इस विकल्प को सही ठहराने के लिए निम्नलिखित कारण दिए जा सकते हैं: 1. उष्णं भुङ्क्ते इति: इस विकल्प का अर्थ है "जो उष्ण (गर्म) भोजन करता है।" संस्कृत में, "भुङ्क्ते" धातु का अर्थ होता है "खाना" या "भोजन करना।" इसलिए, "उष्णभुक्" का सही विग्रह "उष्णं भुङ्क्ते इति" है, जो यह दर्शाता है कि व्यक्ति गर्म भोजन का सेवन करता…Read More
Source :
Source :
Source :
Source :