Question
Easy

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत ।

सामाजिक-सञ्चार-माध्यमम् आधुनिक-युगस्य एतादृशं माध्यमम् अस्ति, येन वयम् अखिलविश्वे केनापि सह कुत्रापि सम्पर्कं साधयितुं समर्थाः भवेम । अन्तर्जालस्य प्रयोगं विना एतन्न सम्भवति । अद्यत्वे अन्तर्जालस्य कृपया 'गूगल-फेसबुक-व्हाट्सएप्' इत्यादीनि अनेकानि उपकरणानि उपलभ्यानि सन्ति । अधुना तु एतानि सर्वाणि उपकरणानि चल-दूरभाषयन्त्रेऽपि विद्यमानानि सन्ति । गूगलादि उपकरणानां प्रयोगेन वयं कस्मिन्नपि विषये सर्वं ज्ञातुं शक्नुमः । अस्मिन् शब्दकोशानां, नवीन-शोध-कार्याणां सूचनानां च भण्डारः वर्तते । अन्तर्जालस्य सहायतया वयं स्थानात् स्थानं धनान्तरणं कुर्याम । समाचाराणां सन्देशानां च आदानं प्रदानं च कुर्मः । गृहादेव कार्यालयस्य कार्याणि सम्पादयामः । विपणिं गन्तुं विना वस्तूनि क्रीणामः विक्रीणामः च । अद्यत्वे तु एतादृशी स्थितिरस्ति यत् अन्तर्जालस्य उपयोगं विना वयं किमपि कार्यं कर्तुं सक्षमाः न स्मः । कालान्तरे निःसंशयः वयं सर्वे अस्मिन्नेव निर्भराः भविष्यामः । एतस्य ज्ञानं विना गतिर्न भविष्यति । परन्तु एतेषां उपकरणानां प्रयोगेण वयं निष्क्रियाः भवामः । अल्पमपि ज्ञानाय वयं कदापि स्वबुद्धेः प्रयोगः न कुर्मः, अपितु गूगलशरणं गच्छामः । परिवारजनैः सह अपि फेसबुक व्हाट्सएप् च इत्याभ्यां माध्यमाभ्यां वार्तालापं कुर्मः । परस्पर-सम्बन्धानाम् अद्य तु किमपि महत्त्वं नास्ति । एतेषां उपकरणानां सततप्रयोगेण नेत्रदोषाः जायन्ते, पृष्ठे पीडा भवति, स्मृतेः ह्रासः दृश्यते, कार्येषु एकाग्रता नश्यति, सम्प्रेषणक्षमतायाः विकासः अवरुध्यते आत्मसम्मानं च क्षरति । यथा अन्येषां वस्तूनां प्रयोगेण लाभाः हानयश्च भवन्ति, तथैव सामाजिक-सञ्चार-माध्यमस्य प्रयोगेण अपि भवन्ति । अतएव अस्माभिः अस्य सदुपयोगाः ग्रहणीयाः दुरुपयोगः च हातव्याः ।

'हातव्याः' – इत्यस्मिन् पदे कः प्रत्ययः वर्तते ?

1
क्तवतु
2
तव्यत्
3
क्त्वा
4
शतृ
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: Paper 2
Chapter: वाक्य रचना
Topic: प्रत्यय
Correct Answer
Option B
Explanation

'हातव्याः' – इत्यस्मिन् पदे 'तव्यत्' प्रत्ययः वर्तते। प्रत्यय 'तव्यत्' का अर्थ है कि किसी कार्य का करना आवश्यक है या अनिवार्य है। यहाँ 'हातव्यः' का अर्थ है 'जिसे करना चाहिए' या 'जिसे करना अनिवार्य है'। यह प्रत्यय क्रियापदों के साथ जुड़कर यह दर्शाता है कि कार्य का संपादन आवश्यक है। अब अन्य विकल्पों की चर्चा करते हैं: 1. क्तवतु: यह प्रत्यय 'कृत' से संबंधित है और इसका अर्थ है 'किया…Read More

Similar Questions from CTET Exam - Paper 2 - Year 2024
Question 1
Easy

Source :

CTET 2024
निम्नलिखित गद्यांश को पढ़कर पूछे गए प्रश्नों के सही/सर्वोधिक उपयुक्त विकल्प का चयन कीजिए। हाल ही में मेडिकल इंडस्ट्री के एक जानकार दावा कर रहे…
Chapter :
वाक्य रचना
Topic :
प्रत्यय
Question 2
Easy

Source :

CTET 2024
निम्नलिखित गद्यांश को पढ़कर पूछे गए प्रश्नों के सही/सर्वोधिक उपयुक्त विकल्प का चयन कीजिए। प्रश्न उठता है कि प्राण का शरीर के साथ बेहतर तालमेल…
Chapter :
वाक्य रचना
Topic :
प्रत्यय
Question 3
Easy

Source :

CTET 2024
निर्देश : नीचे दिए गए गद्यांश को पढ़कर पूछे गए प्रश्नों के सबसे उपयुक्त उत्तर वाले विकल्प को चुनिए : साहित्य सदैव समाज को निरंतरता…
Chapter :
वाक्य रचना
Topic :
प्रत्यय
Question 4
Easy

Source :

CTET 2024
अधोलिखितान् पद्यान् पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । गृहीत्वा दक्षिणां विप्रास्त्यजन्ति यजमानकम् । प्राप्तविद्या गुरुं शिष्या दग्धाऽरण्यं मृगास्तथा ॥ 1 ॥ आचारः कुलमाख्याति देशम्…
Chapter :
वाक्य रचना
Topic :
प्रत्यय