Question
Easy

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा अस्ति । विश्वस्य प्राचीनतमः ग्रन्थः ‘ऋग्वेदः’ अस्यामेव भाषायाम् लिखितः अस्ति । इयम् भाषा सुरवाणी, देववाणी, गीर्वाणवाणी, सुरभारती, देवभाषा प्रभृतिभिः नामभिः लोके विख्याता अस्ति । इयम् रम्या, मधुरा, दिव्या, सरला, सरसा च भाषा अस्ति । इयम् भाषा अलौकिकैः गुणैः समृद्धा वर्तते । इयमेव भाषा सर्वासाम् भारतीयभाषाणाम् जननी । सर्वासु एव भाषासु संस्कृतशब्दाः प्राचुर्येण उपलभ्यन्ते । वेदाः, उपनिषदः, पुराणानि, रामायणम्, महाभारतम्–इत्यादयः हिन्दूनाम् अनेके धार्मिकाः ग्रन्थाः संस्कृते एव लिखिताः सन्ति । विश्वविख्याता गीता महाभारतस्यैव अंशः अस्ति । महाकवेः कालिदासस्य रघुवंशम् अभिज्ञानशाकुन्तलम् च, भवभूतेः उत्तररामचरितादयः ग्रन्थाः संस्कृतसाहित्ये विशेषरूपेण प्रसिद्धाः सन्ति । एतान् पठित्वा न केवलं भारतीयाः अपितु वैदेशिकाः अपि चकितचकिताः भवन्ति । अस्याः अध्ययनेनैव अस्माकं सर्वेषाम् नैतिकम्, आध्यात्मिकम्, सामाजिकम् च कल्याणम् संभवम् किन्तु दुःखस्य विषयोऽयं यत् अधुना जनाः संस्कृतभाषाम् संस्कृतसाहित्यम् च पठितुम् नैव इच्छन्ति । आधुनि‍के कलियुगे आंग्लभाषायाः एव महत्त्वम् वर्तते । स्वसंस्कृतिम् ज्ञातुमपि संस्कृतस्य अध्ययनम् अनिवार्यं वर्तते । अतः संस्कृतभाषायाः माहात्म्यं गौरवं च विज्ञाय अस्माभिः सर्वैः अस्याः प्रचारे प्रसारे च प्रयत्नः करणीयः । कान् पठित्वा भारतीयाः वैदेशिकाः च चकिताः भवन्ति ?

1
गणितविषयस्य पुस्तकानि
2
संस्कृतसाहित्यस्य ग्रन्थान्
3
तमिलभाषायां लिखितान् ग्रन्थान्
4
संगीतग्रन्थान्
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P2
Chapter:
Topic:
Correct Answer
Option B
Explanation

संस्कृतभाषा और संस्कृतसाहित्य का अध्ययन भारतीय संस्कृति और ज्ञान का एक महत्वपूर्ण हिस्सा है। गद्यांश में यह स्पष्ट किया गया है कि संस्कृत भाषा विश्व की प्राचीनतम भाषाओं में से एक है और इसमें कई महत्वपूर्ण धार्मिक और साहित्यिक ग्रंथ लिखे गए हैं। विशेष रूप से, महाभारत, रामायण, वेद, उपनिषद आदि जैसे ग्रंथ संस्कृत में हैं, जो न केवल भारतीयों के लिए, बल्कि विदेशियों के लिए भी आकर्षण का केंद्र…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

अधोलिखितान् पद्यान् पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । जाड्यं धियो हरति सिञ्चति वाचि सत्यम्, मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्तिम्, सत्सङ्गतिः…
Question 2
Easy

Source :

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । प्राचीनकाले वाल्मीकिः नाम एकः ऋषिः आसीत् । एकदा स्वशिष्यैः सह सः तमसानद्याः तटे विहरति स्म ।…
Question 3
Easy

Source :

Parts of Speech
Read the poem given below and answer the questions that follow : Great, wide, beautiful, wonderful world, With the wonderful water round you curled. And…
Chapter :
Parts of Speech
Topic :
Pronoun
Question 4
Easy

Source :

Parts of Speech
Read the extract given below and answer the questions that follow by selecting the correct/most appropriate options : Light Brigade - By Alfred Tennyson Half…
Chapter :
Parts of Speech
Topic :
Adjective