Question
Easy

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । प्राचीनकाले वाल्मीकिः नाम एकः ऋषिः आसीत् । एकदा स्वशिष्यैः सह सः तमसानद्याः तटे विहरति स्म । तदैव सः व्याधेन विद्धम् एकं क्रौञ्चमपश्यत् । तस्य वियोगेन क्रौञ्ची उच्चैः अरुदत् । तस्याः रोदनं श्रुत्वा ऋषिः द्रवीभूतः अभवत् । तस्य मुखात् अयं श्लोकः सहसा एव निर्गतः - “मा निषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ।।” अयं श्लोकः लौकिकसंस्कृतसाहित्यस्य प्रथमा रचना अस्ति । ऋषेः वाणीं श्रुत्वा ब्रह्मा स्वयमेव तत्र उपस्थितः अभवत् ऋषिं च रामचरितं लेखितुं प्रेरितवान् । ब्रह्मणः आदेशानुसारं महर्षिणा वाल्मीकिना श्लोकबद्धा रामायणी कथा लिखिता । संस्कृतसाहित्ये रामायणं नाम महाकाव्यम् आदिकाव्यं मन्यते ऋषिश्च आदिकविः । रामायणम् एकमुपजीव्यं काव्यमस्ति । अस्य कथाः गृहीत्वा अनेकानि काव्यानि महाकाव्यानि नाटकानि च रचितानि । अस्मिन् काव्ये सर्वत्र स्वाभाविकता वर्तते । प्रकृतिवर्णने तु महर्षिः वाल्मीकिः अप्रतिम एव । अस्य पात्रसृष्टिः सजीवा व्यक्तित्वयुक्ता च विद्यते । सीतायाः चरितं भारतीयनारीचरितादर्शस्य प्रतीकमस्ति । मातृप्रेम्णः यादृशी भावना अत्र दरीदृश्यते न सा प्राप्यते अन्यत्र कुत्रापि । आदर्शः आज्ञापालकः धर्मरक्षकः रामसदृशः सुतः, भरतलक्ष्मणशत्रुघ्नसदृशाः भ्रातरः, दशरथतुल्यः पिता, कौशल्यासुमित्रातुल्ये जनन्यौ, सीतासदृशीसाध्वी पत्नी, हनुमत्सदृशः सेवकः, सुग्रीवतुल्यः सुहृत्, विभीषणसदृशः भक्तः च अन्यत्र कुत्रापि विश्वसाहित्ये नैव दृश्यन्ते । सीता मातृरूपेण सम्मान्यते श्रीरामश्च भगवद्रूपेण । मानवजीवनस्य अमूल्यानि तत्त्वानि अत्र वर्णितानि सन्ति । संस्कृतसाहित्ये आदिकविः कः मन्यते ?

1
भवभूतिः
2
भासः
3
व्यासः
4
वाल्मीकिः
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P2
Chapter:
Topic:
Correct Answer
Option D
Explanation

वाल्मीकि को संस्कृत साहित्य में आदिकवि माना जाता है क्योंकि उन्होंने सबसे पहले संस्कृत में महाकाव्य "रामायण" की रचना की। यह काव्य न केवल भारतीय साहित्य का एक महत्वपूर्ण हिस्सा है, बल्कि इसे आदिकाव्य के रूप में भी स्वीकार किया जाता है। वाल्मीकि की रचनाएँ न केवल काव्यात्मक दृष्टि से महत्वपूर्ण हैं, बल्कि उनमें मानव जीवन के विभिन्न पहलुओं, जैसे प्रेम, धर्म, और नैतिकता का गहन वर्णन भी मिलता है।…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत । पुरा एकस्मिन् वृक्षे एका चटका प्रतिवसति स्म । कालेन तस्याः सन्ततिः जाता । एकदा…
Question 2
Easy

Source :

अधोलिखितान् पद्यान् पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । जाड्यं धियो हरति सिञ्चति वाचि सत्यम्, मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्तिम्, सत्सङ्गतिः…
Question 3
Easy

Source :

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा अस्ति । विश्वस्य प्राचीनतमः ग्रन्थः ‘ऋग्वेदः’ अस्यामेव भाषायाम् लिखितः अस्ति ।…
Question 4
Easy

Source :

Parts of Speech
Read the poem given below and answer the questions that follow : Great, wide, beautiful, wonderful world, With the wonderful water round you curled. And…
Chapter :
Parts of Speech
Topic :
Pronoun