Question
Easy

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्य उचिततमम् उत्तरं चित्वा लिखत -

योगस्य परम्परा : वेदेषु मूलरूपेण यद्वा सूत्रात्मकरूपेण सर्वा विद्याः सन्ति । योगस्य वर्णनमपि सर्वासु वैदिकसंहितासुमूलरूपेण प्राप्यते । विश्वस्य सर्वे विद्वांसः स्वीकुर्वन्ति यद्वेदा विश्वस्य प्राचीनतमा ग्रन्थाः सन्ति । भारतीयज्ञानपरम्परानुसारन्तु सर्गादौ परमकारुणिकेन परमेश्वरेण सर्वोपकारार्थम् अग्नि-वायुः-आदित्य, अङ्गिरा इत्येतेभ्यो ऋषिभ्योऽनुक्रमेण ऋग्वेदस्य, यजुर्वेदस्य, सामवेदस्य, अथर्ववेदस्य च ज्ञानं दत्तम् । इत्थं स्वतः सिद्धं यद् योगपरम्परा अपि सर्गसृजनेन सहैव प्रचलिता आसीत् । प्रस्तूयन्तेऽत्र केचन योगविषयका वेदमन्त्राः - योगे योगे तवस्तरं वाजे वाजे हवामहे । सखाय इन्द्रमूतये । (यजुर्वेदः) अष्टचक्रा नव द्वारा देवानां पूरयोध्या । (अथर्ववेदः) योगविषयका एतादृशा बहवो मन्त्रा वेदेषु सन्ति । अत्र तु निदर्शनरूपेण कतिपयानां मन्त्राणामेवोल्लेखः कृतः । वेदेषु विस्तरेण योगसिद्धान्तानां चर्चा विद्यते । अस्मिन् विषये स्वामिदिव्यानन्द सरस्वतिमहोदयेन लिखितो ग्रन्थो द्रष्टव्यः । वेदानां व्याख्यानभूतेषु ब्राह्मणारण्यकोपनिषत्साहित्येषु अपि विस्तरेण योगस्य चर्चा विद्यते । कठोपनिषदि वर्णनमस्ति – यदा पञ्चज्ञानेन्द्रियाणि मनसा सह स्वकीयं व्यापारं विहाय स्थिराणि भवन्ति । बुद्धिश्च न विचेष्टते सैव परमशान्त्यवस्था कथ्यते । योगेश्वरेण भगवता कृष्णेन पञ्चसहस्रवर्षेभ्यः पूर्वमेव गीतायां योगपरम्पराया वर्णनं एवम्प्रकारेण विहितमस्ति – आदौ ईश्वरेण योगस्य ज्ञानं विवस्वते दत्तमासीत् । विवस्वान् मनवे योगशास्त्रं प्राह । मनुना इक्ष्वाकोऽध्यापित । एवमुत्तरोत्तरं योगपरम्परा प्रचलिता । अनन्तरं अस्या योगपरम्पराया विलोपः सञ्जातः । तस्यैव योगस्य ज्ञानमधुना मया ते दत्तम् । महाभारतयुद्धानन्तरमेकवारं पुनर्विलुप्तेव सञ्जाता योगपरम्परा । केवलं कतिपयेषु गिरिकन्दरासु तपस्यारतेषु ऋषिमुनिष्वेन सीमिता सञ्जाता । लोके च योगविषये विविधा भ्रान्ता धारणाः प्रचलिताः । वर्तमानकाले महर्षिणा दयानन्देन पुन महर्षिपतञ्जलेर्योगदर्शनस्य वास्तविकं स्वरूपं प्रकाशितम् । तदनन्तरं महर्षिर्दयानन्दस्य अनुयायिभिर्भूरिशः प्रचारः कृतो योगपरम्परायाः, तेषु स्वामिरामदेवस्य अपूर्वमेव योगदानं वर्तते । भारतीय परम्परायामादियोगी शिव इति मन्यते । आदिकाले शिवेन हिमालयस्थे “कान्ति” इति नाम सरोवरतीरे सप्तऋषिभ्यो योगस्य ज्ञानं दत्तमासीत् । एतैः सप्तभिः ऋषिभिस्तंज्ञानं संसारस्य विविधेषु भूभागेषु प्रचारितम् । शिवः हिमालयक्षेत्रस्याधिपतिरासीत् । शिवस्य राज्ये भागीरथेन गङ्गायाः प्रवाहः प्रवाहितः, यस्य आलङ्कारिकं वर्णनं पुराणेषूपलभ्यते । 2700 ईसातः पूर्ववर्तिषु सिन्धुसभ्यतायां तथा च सरस्वती सभ्यतायां योगासनानां योगमुद्रादीनाञ्चप्राप्यमाणाः साक्ष्या अपि प्रमाणयन्ति यद् भारते सुव्यवस्थिता योगपरम्परा प्रचलिता आसीत् । महर्षिणा पतञ्जलिना महाभारतयुद्धात्प्रागेव योगदर्शने पञ्चनवत्युत्तरैकशततमेषु सूत्रेषु विभिन्नानां योगसाधकानां योगसाधनाजन्यमनुभवं सङ्कलितमासीत् । योगसूत्राणां प्रथमं भाष्यं महर्षिणा वेदव्यासेन व्यासभाष्यमिति नाम्नालिखितमासीत् ।

योगदर्शने कति सूत्राणि सन्ति ?

1
195
2
194
3
185
4
205
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: Paper 1
Chapter: शब्दज्ञानम्
Topic: संख्याज्ञान
Correct Answer
Option A
Explanation

योगदर्शने 195 सूत्राणि सन्ति, जो कि विकल्प 1 के अनुसार सही उत्तर है। महर्षि पतञ्जलि द्वारा रचित योगसूत्रों का संग्रह योगदर्शन के नाम से जाना जाता है। यह योगदर्शन चार पादों में विभाजित है, जिनमें विभिन्न योगसाधनाओं और उनके अनुभवों का वर्णन किया गया है। अब हम अन्य विकल्पों की चर्चा करते हैं और यह स्पष्ट करते हैं कि वे क्यों गलत हैं: 2. विकल्प 2 (194 सूत्राणि) गलत है…Read More

Similar Questions from CTET Exam - Paper 1 - Year 2024
Question 1
Easy

Source :

CTET 2021
संकेत : अधोलिखित गद्यांश पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत : वाग्भटः विख्यातः प्राचीनः वैद्यराजः । सः सिन्धप्रान्ते जन्म अलभत । सः आसीत् पञ्चमे…
Chapter :
शब्दज्ञानम्
Topic :
संख्याज्ञान
Question 2
Easy

Source :

CTET 2021
निर्देशः अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत – ग्रामे आसीत् कश्चन दुर्बलकायः । शरीर-शक्तिहीनताकारणतः सः भृतिकार्यं न प्राप्नोति स्म । सः देवं…
Chapter :
शब्दज्ञानम्
Topic :
संख्याज्ञान
Question 3
Easy

Source :

CTET 2019
निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्य उचिततमम् उत्तरं चित्वा लिखत - वृद्धः पिता स्वपुत्रान् कृषिकर्मणः संचालनाय भूयोभूयः प्रेरयति । किन्तु सर्वेऽपि अलसाः पुत्राः न…
Chapter :
सर्वनाम एवं विशेषणम्
Topic :
सर्वनाम
Question 4
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्य उचिततमम् उत्तरं चित्वा लिखत – विविधा योगपद्धतयः - भारतीय ज्ञानपरम्परायामधो निर्दिष्टाः योगस्य सप्तपद्धतयः सन्ति । तद्यथा – (1) साङ्ख्ययोगः/ज्ञानयोगः (2)…
Chapter :
सर्वनाम एवं विशेषणम्
Topic :
सर्वनाम