Question
Easy

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्य उचिततमम् उत्तरं चित्वा लिखत – विविधा योगपद्धतयः - भारतीय ज्ञानपरम्परायामधो निर्दिष्टाः योगस्य सप्तपद्धतयः सन्ति । तद्यथा – (1) साङ्ख्ययोगः/ज्ञानयोगः (2) कर्मयोगः (3) भक्तियोगः (4) मन्त्रयोगः (5) लययोगः (6) हठयोगः । एषां सर्वेषां परिचयोऽधो लिखितः - (1) – साङ्ख्ययोगः/ज्ञानयोगः साङ्ख्ययोगस्य यद्वा ज्ञानयोगस्य प्रथमो व्याख्याता महर्षि कपिल आसीत् । गीतायां भगवता कृष्णेन प्रतिपादितं यत् ज्ञानेन सदृशं किमपि पवित्रं नास्ति । यदा जीवात्मा साङ्ख्यदर्शने विवेचितानि पञ्चविंशतिः तत्त्वानि यथार्थतया जानाति तदनन्तरं स मुक्तो भवति । एष एव ज्ञानयोगः/साङ्ख्ययोगोऽस्ति । गीतायां ज्ञानयोगस्य व्याख्या इत्थं प्रतिपादिता अस्ति – यथा अग्नि रैधांसि समिद्धः भस्मसात्कुरुते तद्वदेव ज्ञानग्निः सर्वकर्माणि भस्मसात्कुरुते । (2) – कर्मयोगः कर्मफलेष्वधिकारं विहाय, आत्मानं निमित्तमात्रमङ्गीकृत्य यदा मानवः कर्मसु प्रवृत्तो भवति तदेव “कर्मयोगः” यद्वा “निष्कामकर्मयोगः” इति कथ्यते । कर्मफलाधिकारत्यागस्य नास्त्यमभिप्रायो यत्कर्मणः फलन्तु प्राप्स्यत्येव न तत्किमर्थं वयं कर्म कुर्मः? कारणकार्यसिद्धान्तानुसारं कृतकर्मणः फलन्तु निश्चितमेवास्ति । अस्य अयमेव अभिप्रायो यद्-यदा वयं कृतस्य कर्मणः फलप्राप्त्यर्थमेव कर्मसु प्रवृत्ता भवामस्तदा वयं संशयग्रस्ताः, चिन्तातुराः, भयभीता इत्यादिभ्यो नकारात्मकेभ्यो विचारेभ्यो विचलिता भवामः । कृतस्य कर्मणः फलं प्राप्स्यति न वा ? कदा प्राप्स्यति ? कचिद् बाधा तु नोपस्थिता भविष्यति ? इत्यादिभिः कारणैः कर्मसुन्यूनता भवति । यया शक्त्या, येन चोत्साहेन कर्म करणीयं स्यात्, सा शक्तिः स चोत्साहः फलस्य चिन्तायां नष्टो भवति । परिणामतः कर्मणि न्यूनता जायते । फलं तु कर्मण एव प्राप्यते, यदा कर्मणि न्यूनता जाता तदा फलेऽपि न्यूनता भविष्यति । अतः कर्मफलाकांक्षामथवा कर्मफलाधिकारं विहाय अहर्निशं कर्त्तव्यकर्म करणीयमेव कर्मयोगो भवति । श्रीमद्भगवद्गीतायामस्य व्याख्या अधोलिखिता अस्ति – तव अधिकारः फलेषु नास्ति अपितु कर्मस्वेव तवाधिकारः । त्वं कर्म मा त्यज न च कर्मफलस्य हेतुर्भूः । सफलतायामसफलतायां समो भूत्वा कर्माणि कुरु यतो हि समत्वमेव योगो भवति । अन्यच्य योगस्य परिभाषा अस्ति कुशलतापूर्वकं कर्म अपि योग एव अस्ति । “योगः कर्मसु कौशलम्” (3) – भक्तियोगः मनसावाचाकर्मणा सर्वभावेन आत्मानं परमेश्वरार्पणं कृत्वा अजस्रं कर्त्तव्यकर्मसु निरतमेव भक्तियोगः कथ्यते । भौतिकान् सर्वान् कामान् सर्वथा विहाय श्रद्धान्वितो भूत्वा सर्वकामनीश्वरार्पणं कृत्वा, यस्तस्यैव स्तुतिप्रार्थनोपासनायां समयं यापयति सैव भक्तियोगस्य साधकः । (4) – मन्त्रयोगः ईश्वरस्यमुख्यं नाम ‘ओ३म्’ अथवा गायत्र्यादीनां मन्त्राणां जप काले यदा मन्त्रेषु मन स्थिरं भवति सैव “मन्त्रयोगः” कथ्यते । वाचिकम्-उपांशुः - मानसिकम् – अजपाजपञ्च्येति चतुर्विधा जपविधिः । (5) – लययोगः सर्वदा अजस्ररूपेण ईश्वरस्य चिन्तने मनने-एव यदा मनःसंलग्नम्भवति सैव अवस्था लययोगस्य भवति । ध्यानावस्थायां नादानुसन्धानं कृत्वा मनो नादे-एव स्थिरीकरणमपि लययोगः कथ्यते । (6) – हठयोगः हठ शब्दे हकारो ठकारश्चेत्येतौ शब्दौ योगपरम्परायां पारिभाषिकौ स्तः । हकारस्य अर्थोऽस्ति सूर्यस्वरः [नासिकया दक्षिणरन्ध्रेण चलन्तौ श्वासप्रश्वासौ] ठकारस्य अर्थोऽस्ति चन्द्रस्वरः [नासिकया वामरन्ध्रेण चलन्तौ श्वासप्रश्वासौ] सूर्यचन्द्रस्वरयोः सम्मेलनं कृत्वा सुषम्णानाड्यां प्रवाहकरणमेव हकारठकारयोर्योगो “हठयोग” इति कथ्यते । “फलन्तु प्राप्स्यत्येव न तत् किमर्थं वयं कर्म कुर्मः” इत्यत्र 'वयम्' इत्यस्य निष्पत्तिर् भवति -

1
इदम् पुंल्लिङ्गे प्रथमाविभक्तौ बहुवचने
2
अदस् पुंल्लिङ्गे प्रथमाविभक्तौ बहुवचने
3
अस्मद् स्त्रीलिङ्गे प्रथमाविभक्तौ बहुवचने
4
युस्मद् पुंल्लिङ्गे प्रथमाविभक्तौ बहुवचने
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P1
Chapter: सर्वनाम एवं विशेषणम्
Topic: सर्वनाम
Correct Answer
Option C
Explanation

प्रश्न में 'वयम्' शब्द का विश्लेषण किया गया है और यह पूछा गया है कि यह किस विकल्प के अनुसार सही है। सही उत्तर विकल्प 3 है: "अस्मद् स्त्रीलिङ्गे प्रथमाविभक्तौ बहुवचने"। अब हम इस उत्तर को सही ठहराने के लिए विस्तृत व्याख्या करेंगे और अन्य विकल्पों को गलत साबित करेंगे। 1. विकल्प 3: अस्मद् स्त्रीलिङ्गे प्रथमाविभक्तौ बहुवचने 'वयम्' शब्द संस्कृत में 'हम' के लिए प्रयुक्त होता है। यह 'अस्मद्' शब्द…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

शब्दज्ञानम्
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्य उचिततमम् उत्तरं चित्वा लिखत - योगस्य परम्परा : वेदेषु मूलरूपेण यद्वा सूत्रात्मकरूपेण सर्वा विद्याः सन्ति । योगस्य वर्णनमपि सर्वासु वैदिकसंहितासुमूलरूपेण…
Chapter :
शब्दज्ञानम्
Topic :
संख्याज्ञान
Question 2
Easy

Source :

सर्वनाम एवं विशेषणम्
निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्य उचिततमम् उत्तरं चित्वा लिखत - वृद्धः पिता स्वपुत्रान् कृषिकर्मणः संचालनाय भूयोभूयः प्रेरयति । किन्तु सर्वेऽपि अलसाः पुत्राः न…
Chapter :
सर्वनाम एवं विशेषणम्
Topic :
सर्वनाम
Question 3
Easy

Source :

सर्वनाम एवं विशेषणम्
निर्देशः अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत – ग्रामे आसीत् कश्चन दुर्बलकायः । शरीर-शक्तिहीनताकारणतः सः भृतिकार्यं न प्राप्नोति स्म । सः देवं…
Chapter :
सर्वनाम एवं विशेषणम्
Topic :
विशेषणम्
Question 4
Easy

Source :

सर्वनाम एवं विशेषणम्
निर्देशः : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत – कदाचित् कश्चन महात्मा प्रयाणावसरे पिपासाम् अनुभूतवान् । समीपे एव तेन एकः कुटीरः दृष्टः ।…
Chapter :
सर्वनाम एवं विशेषणम्
Topic :
विशेषणम्