Question
Easy

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । प्राचीनकाले वाल्मीकिः नाम एकः ऋषिः आसीत् । एकदा स्वशिष्यैः सह सः तमसानद्याः तटे विहरति स्म । तदैव सः व्याधेन विद्धम् एकं क्रौञ्चमपश्यत् । तस्य वियोगेन क्रौञ्ची उच्चैः अरुदत् । तस्याः रोदनं श्रुत्वा ऋषिः द्रवीभूतः अभवत् । तस्य मुखात् अयं श्लोकः सहसा एव निर्गतः - “मा निषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ।।” अयं श्लोकः लौकिकसंस्कृतसाहित्यस्य प्रथमा रचना अस्ति । ऋषेः वाणीं श्रुत्वा ब्रह्मा स्वयमेव तत्र उपस्थितः अभवत् ऋषिं च रामचरितं लेखितुं प्रेरितवान् । ब्रह्मणः आदेशानुसारं महर्षिणा वाल्मीकिना श्लोकबद्धा रामायणी कथा लिखिता । संस्कृतसाहित्ये रामायणं नाम महाकाव्यम् आदिकाव्यं मन्यते ऋषिश्च आदिकविः । रामायणम् एकमुपजीव्यं काव्यमस्ति । अस्य कथाः गृहीत्वा अनेकानि काव्यानि महाकाव्यानि नाटकानि च रचितानि । अस्मिन् काव्ये सर्वत्र स्वाभाविकता वर्तते । प्रकृतिवर्णने तु महर्षिः वाल्मीकिः अप्रतिम एव । अस्य पात्रसृष्टिः सजीवा व्यक्तित्वयुक्ता च विद्यते । सीतायाः चरितं भारतीयनारीचरितादर्शस्य प्रतीकमस्ति । मातृप्रेम्णः यादृशी भावना अत्र दरीदृश्यते न सा प्राप्यते अन्यत्र कुत्रापि । आदर्शः आज्ञापालकः धर्मरक्षकः रामसदृशः सुतः, भरतलक्ष्मणशत्रुघ्नसदृशाः भ्रातरः, दशरथतुल्यः पिता, कौशल्यासुमित्रातुल्ये जनन्यौ, सीतासदृशीसाध्वी पत्नी, हनुमत्सदृशः सेवकः, सुग्रीवतुल्यः सुहृत्, विभीषणसदृशः भक्तः च अन्यत्र कुत्रापि विश्वसाहित्ये नैव दृश्यन्ते । सीता मातृरूपेण सम्मान्यते श्रीरामश्च भगवद्रूपेण । मानवजीवनस्य अमूल्यानि तत्त्वानि अत्र वर्णितानि सन्ति । रामायणस्य पात्रसृष्टिः कीदृशी वर्तते ?

1
प्रथमा
2
अतुल्या
3
कृत्रिमतायुक्ता
4
सजीवा
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P2
Chapter: वाक्यप्रयोग
Topic: वाक्यप्रयोग
Correct Answer
Option D
Explanation

रामायणस्य पात्रसृष्टिः "सजीवा" वर्तते, यः विकल्पः 4 सही उत्तरं अस्ति। इदं कारणं यत् महर्षिः वाल्मीकिः पात्राणां सजीव व्यक्तित्वं तथा स्वाभाविकता वर्णयति। रामायणस्य प्रत्येकं पात्रं जीवंतं प्रतीतं भवति, यथा तेषां भावनाः, कृत्यं च पाठकानां हृदयं स्पृशन्ति। सीता, राम, लक्ष्मण, हनुमान् इत्यादीनां चरित्राणि तादृशं प्रभावं कुर्वन्ति यत् तानि पाठकानां चित्ते स्थायित्वं प्राप्नुवन्ति। अन्य विकल्पानां असंगतिः: 1. प्रथमा: अयं विकल्पः पात्रसृष्टेः विशेषणं नास्ति। यद्यपि रामायणं आदिकाव्यं मन्यते, तथापि पात्रसृष्टिः प्रथमा इति न कथ्यते।…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

वाक्यप्रयोग
अधोलिखितं गद्यं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । उच्यते खलु 'शरीरमाद्यं खलु धर्मसाधनम्' । सत्यमिदम् । विना शरीर-स्वास्थ्यं किमपि शुभं कर्म न भवितुमर्हति ।…
Chapter :
वाक्यप्रयोग
Topic :
वाक्यप्रयोग
Question 2
Easy

Source :

वाक्यप्रयोग
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । सामाजिक-सञ्चार-माध्यमम् आधुनिक-युगस्य एतादृशं माध्यमम् अस्ति, येन वयम् अखिलविश्वे केनापि सह कुत्रापि सम्पर्कं साधयितुं समर्थाः भवेम ।…
Chapter :
वाक्यप्रयोग
Topic :
वाक्यप्रयोग
Question 3
Easy

Source :

वाक्यप्रयोग
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । प्राचीनकाले वाल्मीकिः नाम एकः ऋषिः आसीत् । एकदा स्वशिष्यैः सह सः तमसानद्याः तटे विहरति स्म ।…
Chapter :
वाक्यप्रयोग
Topic :
वाक्यप्रयोग
Question 4
Easy

Source :

वाक्यप्रयोग
अधोलिखितान् श्लोकान् पठित्वा प्रश्नानानां विकल्पात्मकोत्तरेभ्य उचिततमम् उत्तरं चित्वा लिखत - स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः। स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु।। यतः प्रवृत्तिर्भूतानां येन सर्वमिदं…
Chapter :
वाक्यप्रयोग
Topic :
छन्द