Question
Easy

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चित्वा लिखत । एकस्मिन् ग्रामे सत्यप्रियः नामकः एकः काष्ठिकः वसति स्म । सः प्रत्यहं वनं गत्वा कुठारेण काष्ठानि छिन्दति स्म । काष्ठानि छित्त्वा तानि काष्ठानि नगरे विक्रीय सः स्वजीविकोपार्जनं करोति स्म । एवं सः सुखेन जीवनं नयति स्म । वने वृक्षाणां समीपे एव एका नदी प्रवहति स्म । एकस्मिन् दिने यदा सत्यप्रियः कुठारेण काष्ठानि छिन्दति स्म, तस्य हस्तात् भ्रष्टः कुठारः जले अपतत् । कुठारेण बिना सः काष्ठानि छेत्तुम् असमर्थः अभवत् । एवं सः उच्चैः विलापं कर्तुमारभत । तस्य क्रन्दनं श्रुत्वा वरुणदेवः नद्याः बहिर् आगत्य तमपृच्छत् - “भद्र ! कस्मात् रोदिषि ?” ततः सत्यप्रियः सर्वं वृत्तान्तं तस्मै निवेदितवान् । वरुणदेवः तस्य परीक्षां कर्तुम् ऐच्छत् । अतः सः जले निमज्जितवान् । शीघ्रमेव हस्ते सुवर्णकुठारम् आनीय सः बहिरागच्छत् सत्यप्रियम् अपृच्छत् च – “किमेषः तव कुठारः ? गृह्यताम् ।” सः पुनः उच्चैः रोदितुमारभत अवदत् च – “नास्ति एषः मम । अहन्तु स्वकीयमेव कुठारम् इच्छामि ।” ततः वरुणदेवः पुनः जले निमज्जितवान् । अधुना सः रजतकुठारेण साकं बहिरागच्छत् । तं प्रदर्श्य सः पूर्ववत् अपृच्छत् – “अयमस्ति तव कुठारः, गृह्यताम ।” किन्तु सत्यप्रियः सत्यवादी आसीत् । सः शीघ्रम् अवदत् – “अयमपि मम कुठारः नास्ति ।” एतदाकर्ण्य पुनरपि वरुणदेवः जले निमज्जितः । अधुना सः लौहकुठारेण सह बहिर् आगत्य तं काष्ठिकमपृच्छत् – “किमेषः तव कुठारः ?” हर्षितः सत्यप्रियः झटिति उवाच – “आम्, आम् । अयमेवास्ति मम कुठारः प्रभो ।” वरुणदेवस्य चरणौ स्पृष्ट्वा, स्वकुठारं गृहीत्वा च सः काष्ठानि छेत्तुम् अचलत् । तस्य सत्यनिष्ठां दृष्ट्वा वरुणदेवः अतीव प्रसन्न्ऽभवत् अतस्तेन देवेन त्रयः एव कुठाराः तस्मै काष्ठिकाय प्रदत्ता । एवमुचितं कथ्यते - सत्यमेव जयते । सत्यप्रियः नामकः काष्ठिकः कीदृशः व्यक्तिः आसीत् ?

1
लोभी
2
कृपणः
3
सत्यवादी
4
दुष्टः
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P1
Chapter: सर्वनाम एवं विशेषणम्
Topic: विशेषणम्
Correct Answer
Option C
Explanation

सत्यप्रियः नामकः काष्ठिकः सत्यवादी व्यक्तिः आसीत्, एतदर्थं विकल्प 3 उचितम् अस्ति। गद्यांशे स्पष्टं वर्णितम् अस्ति यः सत्यप्रियः सत्यं वदति स्म। यदा वरुणदेवः तस्य परीक्षां कर्तुम् सुवर्णकुठारं प्रदर्शयति स्म, तदा सत्यप्रियः तं स्वकं नास्ति इति अवदत्। पुनः रजतकुठारं प्रदर्शिते अपि सः तं स्वकं नास्ति इति अवदत्। अन्ते यदा लौहकुठारं प्रदर्शितं, तदा सः तं स्वकं इति स्वीकरोति। एषः तस्य सत्यनिष्ठां दर्शयति। अन्य विकल्पानां अस्वीकृतिः: 1. लोभी: सत्यप्रियः लोभी नासीत्, यतः सः सुवर्णकुठारं…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

सर्वनाम एवं विशेषणम्
निर्देशः अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत – ग्रामे आसीत् कश्चन दुर्बलकायः । शरीर-शक्तिहीनताकारणतः सः भृतिकार्यं न प्राप्नोति स्म । सः देवं…
Chapter :
सर्वनाम एवं विशेषणम्
Topic :
विशेषणम्
Question 2
Easy

Source :

सर्वनाम एवं विशेषणम्
निर्देशः : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत – कदाचित् कश्चन महात्मा प्रयाणावसरे पिपासाम् अनुभूतवान् । समीपे एव तेन एकः कुटीरः दृष्टः ।…
Chapter :
सर्वनाम एवं विशेषणम्
Topic :
विशेषणम्
Question 3
Easy

Source :

सर्वनाम एवं विशेषणम्
निम्नलिखितानि पद्यानि पठित्वा प्रश्नानानाम् उत्तराणि यथोचितं विकल्पं चित्वा देयानि - खलः सर्षपमात्राणि परच्छितद्राणि पश्यति । आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ॥ 1 ॥ सर्पदुर्जनयोर्मध्ये वरं…
Chapter :
सर्वनाम एवं विशेषणम्
Topic :
विशेषणम्
Question 4
Easy

Source :

सर्वनाम एवं विशेषणम्
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा अस्ति । विश्वस्य प्राचीनतमः ग्रन्थः ‘ऋग्वेदः’ अस्यामेव भाषायाम् लिखितः अस्ति ।…
Chapter :
सर्वनाम एवं विशेषणम्
Topic :
विशेषणम्